ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
न चैतद्युक्तमिव । न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते, कार्यविरोधित्वात् — इत्युक्तम् । नन्वेतदप्युक्तम् — न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति; तदेतदपेशलम् — स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति, स्वर्गच्युतस्यापि कञ्चित्फललेशं जनयतीति । न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते । स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते । तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते । न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते । नापि कल्पयितुं शक्यते, स्वर्गफलत्वशास्त्रविरोधात् । अवश्यं चैतदेवं विज्ञेयम् — न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति । यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन् , तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात् , न विपरीतः । तत्रेयमनुशयविभागश्रुतिरुपरुध्येत — ‘तद्य इह रमणीयचरणाः … अथ य इह कपूयचरणाः’ (छा. उ. ५ । १० । ७) इति । तस्मादामुष्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः, तद्वन्तोऽवरोहन्तीति ॥

अत्र च स्मृतिशब्देन लौकिकी स्मृतिर्यथोक्तदृष्टमूला वा ‘ततः शेषेण’ इत्याद्या गृहीता । तदेतदेकदेशिमतं दूषयति -

नचेति ।

इवकारो मधुरोक्त्या प्रयुक्तो वस्तुतस्त्वेवकारो विवक्षितः ।

अयुक्तत्वे हेतुमाह -

नहीति ।

स्वर्गार्थेन कर्मणा स्वर्गश्चेदारब्धो न तस्य शेषस्तेन स्वर्गो नारभ्यते चेन्न तस्यार्थवत्तेति भावः ।

स्वर्गस्यारब्धत्वेऽपि कृत्स्नस्यानारम्भान्नोक्तदूषणमिति शङ्कते -

नन्विति ।

स्वर्गार्थं चोदितस्य कर्मणः स्वर्गार्थत्वयोगान्मैवमित्याह -

तदेतदिति ।

परोक्तं दृष्टान्तं विघटयति -

स्नेहेति ।

तथादृष्टत्वादुपपन्नेति यावत् ।

दार्ष्टान्तिकेऽपि तथैव लेशानुवृत्तिरित्याशङ्क्य दृष्टा कल्पिता वा सेति विकल्प्याद्यं प्रत्याह -

नत्विति ।

इहेति शास्त्रीयव्यवहारभूमिरुक्ता ।

द्वितीयं निराह -

नापीति ।

शब्दैकगम्यत्वान्नायमर्थः सामान्यतो दृष्टगम्य इत्यर्थः ।

किञ्च स्वर्गहेतुकर्मशेषादनुशयादवरोहे कपूययोन्यापत्तिशास्त्रविरोधः स्यादित्याह -

अवश्यं चेति ।

तदेव स्फुटयति -

यदीत्यादिना ।

परमतायोगे स्वमतमुपसंहरति -

तस्मादिति ।