प्रथमं पूर्वपक्षबीजमनुभाषते -
यदिति ।
यद्यपि यत्किञ्चयावत्सम्पातशब्दौ चन्द्रमस्येव सर्वस्य कर्मणो भुक्तत्वप्रापकत्वेनानुशयाभावे लिङ्गभूतौ तथापि रमणीयचरणाः कपूयचरणा इति शब्दयोर्विशिष्टजात्यारम्भकैहिककर्मसद्भावावेदकत्वादशेषभोगविषयसामान्यलिङ्गस्यैहिककर्मसत्त्वविषयविशेषलिङ्गेनामुष्मिकविषयतया सङ्कोचः स्यादिति मत्वाह -
नैतदिति ।
फलभोगेन चन्द्रलोके स्थित्वेति शेषः । क्षपयित्वा तस्माल्लोकात्पुनरस्मै लोकायागच्छतीति प्राप्यान्तमित्यादिवाक्येन गम्यत इति योजना ।
द्वितीयं पूर्वपक्षबीजमनुवदति -
यदपीति ।
मरणस्याविशेषेणाशेषानारब्धकर्मव्यञ्जकत्वे विभागायोगं फलितमाह -
तत्रेति ।
रमणीयचरणा इत्याद्यनुशयवादिश्रुतिविरोधादभिव्यञ्जकमपि प्रायणं न सर्वकर्मव्यञ्जकमनुमातुं शक्यमित्याह -
तदपीति ।
व्यञ्जकत्वं प्रायणस्यापीत्युक्तं, तदपि नास्तीत्याह -
अपिचेति ।
नहि तस्य सर्वकर्मव्यञ्जकत्वे कारणं किञ्चिदिति भावः ।
पूर्ववादी पृष्टं मत्वा हेतुमाह -
आरब्धेति ।
नानाविधसुखदुःखफलकर्मणामपर्यायेण प्रायणेऽभिव्यक्तिश्चेत्फलाभिमुख्यलक्षणत्वाद््व्यक्तेर्युगपत्तत्तत्फलभोगप्रसङ्गात्तस्य चादृष्टेस्तत्तत्प्रबलकर्मप्रतिबन्धध्वंसमपेक्ष्य क्रमेणैव तत्तत्कर्मव्यक्तिरिति परिहरति -
यथेति ।
युगपत्फलारम्भासम्भवादित्यसिद्धम् ।
सर्वस्यापि कर्मणोऽनारब्धफलत्वाविशेषादेकजात्यारम्भकत्वसम्भवादित्याशङ्क्य विरुद्धजातिनिमित्तभोगफलस्य कर्मणः शास्त्रयुक्तिविरुद्धमेकजात्यारम्भकत्वमित्याह -
नहीति ।
प्रायणावस्थायामुपस्थिते विरुद्धे कर्मणि प्रबलेन दुर्वलस्योच्छेदः स्यादित्याशङ्क्याह -
नापीति ।
कृतं कर्मावश्यकफलकमिति नास्त्येकान्तः ।
प्रायश्चित्तेन ब्रह्मज्ञानेन च तत्क्षयश्नुतेरित्याशङ्क्या प्रकृते तदभावान्नोच्छेदोऽस्तीत्याह -
नहीति ।
प्रायश्चित्तेन वा ब्रह्मज्ञानेन वा भोगेन वा विना कर्मणां विच्छेदो नेत्यत्र मानमाह-
स्मृतीति
इतोऽपि प्रायणाभिव्यक्तं सर्वमेव कर्म एकजात्यारम्भकमित्ययुक्तमित्याह -
यदि चेति
पूर्वस्य कर्मणः सर्वस्याप्येकजात्यारम्भकस्य भोगेन क्षयान्मनुष्याधिकारित्वाच्च शास्त्रस्य स्वर्गादियोनिषु कर्मासिद्धेर्न तन्निमित्तः संसारः स्यात् । नच ज्ञानाभावान्मुक्तिरिति दुर्घटतेत्यर्थः ।
‘श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति । ‘इत्यादिस्मृतिविरोधोऽपि कर्माशयस्यैकभविकत्वे स्यादित्याह -
ब्रह्मेति ।
एकस्यापि कर्मणोऽनेकजात्यारम्भकत्वस्मरणादनेकेषामेकजात्यारम्भकत्वं दूरनिरस्तमित्युक्तं तदयुक्तम् । एकं हि कर्मैकफलं दृष्टं नच सामान्यतोदृष्टविरुद्धं वचनं मानमित्याशङ्क्याह -
नचेति ।
किञ्च प्रायणं सर्वस्य वा कर्मणो व्यञ्जकं कस्यचिदेव वा । नाद्य इत्याह -
नचेति ।
कारीर्यादेरिहैवानुष्ठितस्यात्रैव भुज्यमानत्वान्न प्रायणेन व्यङ्ग्यतेत्यर्थः ।
द्वितीयं निरस्यन्परोक्तं दृष्टान्तं प्रत्याह -
प्रदीपेति ।
यश्च प्रदीपदृष्टान्तः सोऽपि प्रायणस्य सति व्यञ्जकत्वेऽनुकूलः स्यात् । यदा तु न तद्व्यञ्जकं किं तु बलवता प्रतिबद्धं दुर्बलं दुष्टमिति दर्शितं तदा तेनैव सोऽपि निरस्त इत्यर्थः ।
भवतु वा प्रायणस्य क्वचित्कर्मणि व्यञ्जकत्वं तदापि प्रदीपोऽनुकूलो भवतीत्याह -
स्थूलेति ।
उक्तमेव व्यनक्ति -
यथेत्यादिना ।
इति सर्वकर्मव्यञ्जकत्वासिद्धिः । कतिपयव्यञ्जकत्वमिष्टमेवेति शेषः ।
ऐकभविकः कर्माशय इति मतनिरासं निगमयति -
तस्मादिति ।
श्रुतिश्चरणश्रुतिः । स्मृतिश्च श्वसूकरेत्याद्या । न्यायस्तु केन हेतुनेत्यादावुक्तः ।
यदि सर्वं कर्मैकस्मिन्मुमुक्षुदेहे न भुज्यते तदावशिष्टकर्मानन्त्यान्न कदाचिन्मुक्तिरतो मुक्त्यनुपपत्त्या प्रायणव्यक्तं सर्वं कर्मैकदेहारम्भकमित्याशङ्क्याह -
शेषेति ।
सूत्रवयव्याख्यानमुपसंहरति -
तस्मादिति ।
अवशिष्टं व्याचष्टे -
ते चेति ।
विरुद्धमेतदित्याशङ्क्याह -
धूमेति ।
यथेतंशब्दाच्चेति ।
यथेतमेवाध्वानं पुनर्निवर्तन्ते यथेतमिति श्रुतेश्चेत्यर्थः ।
विपर्ययरप्रतीतिप्रापकमाह -
रात्र्यादीति ॥ ८ ॥