ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
अथापि स्यात् — या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता — ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) इति, सा खलु चरणात् योन्यापत्तिं दर्शयति, नानुशयात् । अन्यच्चरणम् , अन्योऽनुशयः — चरणं चारित्रम् आचारः शीलमित्यनर्थान्तरम् , अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्म अभिप्रेतम् । श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति — ‘यथाकारी यथाचारी तथा भवति’ (बृ. उ. ४ । ४ । ५) इति, ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकꣳ सुचरितानि तानि त्वयोपास्यानि’ (तै. उ. १ । ११ । २) इति च । तस्मात् चरणाद्योन्यापत्तिश्रुतेः नानुशयसिद्धिः इति चेत् , नैष दोषः — यतोऽनुशयोपलक्षणार्थैव एषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥ ९ ॥

पूर्वोदाहृतां श्रुतिमाक्षेपसमाधिभ्यां विवृणोति -

चरणादिति ।

चोद्यं व्याकरोति -

अथापीति ।

श्रुत्यानुशयसत्त्वे दर्शितेऽपीति यावत् ।

चरणाद्या योन्यापत्तिः सानुशयादेव तयोरैक्यादित्याशङ्क्याह -

अन्यदिति ।

तदेवान्यत्वं स्फुटयितुं चरणानुशयशब्दार्थमनुवदति -

चरणमिति ।

तत्र श्रुतिमनुकूलयति -

श्रुतिश्चेति ।

तयोर्भेदे फलितमाह -

तस्मादिति ।

परिहारं व्याचष्टे -

नेत्यादिना ।

‘अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च ज्ञानं च शीलमेतद्बिदुर्बुधाः’ इति स्मृतस्य शीलस्यापि कर्माङ्गत्वाच्चरणशब्देन शीलवाचिना कर्मानुशयो लक्ष्यत इति भावः ॥ ९ ॥