ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
स्यादेतत् — कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति; अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् , अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत — इति चेत् , नैष दोषः । कुतः ? तदपेक्षत्वात् । इष्टादि हि कर्मजातं चरणापेक्षम् । न हि सदाचारहीनः कश्चिदधिकृतः स्यात् — ‘आचारहीनं न पुनन्ति वेदाः’ इत्यादिस्मृतिभ्यः । पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम् । इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते । कर्म च सर्वार्थकारि — इति श्रुतिस्मृतिप्रसिद्धिः । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् । न हि कर्मणि सम्भवति शीलात् योन्यापत्तिर्युक्ता । न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति — इति ॥ १० ॥

कार्ष्णाजिनिवाक्यस्य पौरुषेत्यत्वान्मूले वक्तव्ये मुख्यत्यागेन लक्षणाहेत्वभावाच्चरणशब्दितस्य शीलस्यैवानर्थक्यपरिहारार्थं योन्यापत्तिहेतुतेत्याशङ्क्य परिहरति -

आनर्थक्यमिति ।

शङ्कां विभजते -

स्यादिति ।

सम्भवति मुख्येऽर्थे लक्षणा न ग्राह्येत्यर्थः ।

कर्मणैव योन्यापत्तिसम्भवाच्चरणशब्देन तल्लक्षणेत्याशङ्क्य शास्त्रप्रामाण्यात्कर्मवच्चरणस्यापि योग्यापत्तिहेतुता स्यादिति पूर्ववाद्येवाह -

नन्विति ।

किञ्च कर्मलक्षणायां तस्यैव फलं श्रुतमिति शीलस्य तत्कल्प्येत तस्यापि विहितस्याफलत्वायोगात्तेन चरणस्यैव यथाश्रुतं फलमुपेतव्यमित्याह -

अवश्यं चेति ।

तदनुपगमे दोषमाह -

अन्यथेति ।

आचारस्य कर्माङ्गत्वादङ्गाङ्गिनोश्चैकाधिकारत्वान्न पृथक्फलकल्पनेत्याह -

नेत्यादिना ।

उक्तमर्थं प्रश्नपूर्वकं सौत्रं हेतुमादाय विशदयति -

कुत इति ।

कथमिष्टादिकर्मसमुदायस्य चरणापेक्षत्वं, तत्राह -

नहीति ।

सदाचारयुक्तस्य कर्माधिकारे मानमाह -

आचारेति ।

वेदशब्देन वेदार्थोपलक्षणादाचारस्तच्छेषो न स्वतन्त्रफल इत्युक्तम् । इदानीं स्नानादिवत्पुरुषसंस्कारतया भिन्नफलत्वेऽपि न विरोधोऽस्तीत्याह -

पुरुषेति ।

कथं तर्हि पृथक्फलत्वं, तत्राह -

इष्टादौ हीति ।

अङ्गावबद्धोपास्तिवदित्यर्थः ।

आचारस्यैव योन्यापत्तिहेतुत्वेऽपि किमित्यनुशयस्य तत्कल्पनेत्याशङ्क्य कर्मणस्तद्धेतुत्वप्रसिद्धेरित्याह -

कर्म चेति ।

एकदेशिमतमुपसंहरति -

तस्मादिति ।

तदेव प्रपञ्चयति -

नहीति ।

अयुक्तत्वं दृष्टान्तेन स्पष्टयति -

नहीति ।

इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ॥ १० ॥