ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणम् अनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते — यो हि इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते — धर्मं चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दितकर्माणः इति निर्णयः ॥ ११ ॥

साक्षात्सिद्धान्तमाह -

सुकृतेति ।

तदेव विवृणोति -

बादरिस्त्विति ।

कथं चरणशब्देन मुख्यवृत्त्या कर्मोच्यते, तत्राह -

चरणमिति ।

वृद्धप्रयोगाभावे कथं तस्य कर्मविषयत्वं, तत्राह -

तथाहीति ।

कर्मणः सर्वार्थकारित्वप्रसिद्धेराचारस्यातथात्वाद्भिन्नतेत्याशङ्क्य पूर्वोक्तस्मृतेरक्रोधादेः साधारणधर्मस्य शीलत्वसिद्धेर्मैवमित्याह -

आचारोऽपीति ।

कथं तर्हि श्रौतो भेदवादः, तत्राह -

भेदव्यपदेशस्त्विति ।

लक्षणायां निमित्ताभावाच्चरणशब्दोऽनुशये मुख्य इति बादरिमतमुपसंहरति -

तस्मादिति ॥ ११ ॥