ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्सम्पातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम्; अथावरोहप्रकारः परीक्ष्यते । तत्रेयमवरोहश्रुतिर्भवति — ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो’ (छा. उ. ५ । १० । ५) ‘भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ (छा. उ. ५ । १० । ६) इति । तत्र संशयः — किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते, किं वा आकाशादिसाम्यमिति । तत्र प्राप्तं तावत् — आकाशादिस्वरूपमेव प्रतिपद्यन्त इति । कुतः ? एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या, न लक्षणा । तथा च ‘वायुर्भूत्वा धूमो भवति’ इत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपपत्तौ आञ्जस्येन अवकल्पन्ते । तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति । एवं प्राप्ते, ब्रूमः — आकाशादिसाम्यं प्रतिपद्यन्त इति । चन्द्रमण्डले यत् अम्मयं शरीरमुपभोगार्थमारब्धम् , तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति । ततो वायोर्वशमेति । ततो धूमादिभिः सम्पृच्यत इति । तदेतदुच्यते — ‘यथेतमाकाशमाकाशाद्वायुम्’ (छा. उ. ५ । १० । ५) इत्येवमादिना । कुत एतत् ? उपपत्तेः । एवं हि एतदुपपद्यते । न हि अन्यस्यान्यभावो मुख्य उपपद्यते । आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते । विभुत्वाच्च आकाशेन नित्यसम्बद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्सम्बन्धो घटते । श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव । अत आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपचर्यते ॥ २२ ॥

अनिष्टादिकारिणामारोहावरोहरूपा गतिरुक्ता सम्प्रतीष्टादिकारिणामवशिष्टमवरोहप्रकारं निरूपयति -

साभाव्येति ।

व्यवहितेन सम्बन्धं दर्शयति -

इष्टादीति ।

विषयवाक्यमुदाहरति -

तत्रेति ।

चन्द्रमसि भोगं समाप्य प्राप्तावरोहेष्विष्टादिकारिष्विति यावत् । चन्द्रे भोक्तव्यकर्मणः समाप्त्यानन्तर्यमथेत्युक्तम् । एतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते पुनःशब्दादनादौ संसारे पूर्वमपि चन्द्रं गता निवृत्ताश्चेति गम्यते ।

कोऽसावध्वा यं प्रति निवर्तन्ते तमाह -

यथेति ।

यथागतं मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमिति गमनक्रम आगमनेऽप्याकाशोक्तेर्यथेतमिति भाति पितृलोकाद्यकीर्तनादभ्रादिसङ्कीर्तनाच्चानेवमपीति गम्यते । तथाच यथेतमित्युपलक्षणं याः खल्वापश्चन्द्रमण्डले देहमारब्धवत्यस्ताः कर्मक्षये द्रुता आकाशं गतास्तत्सदृशा यदा जायन्ते तदा तदुपहिता अनुशयिनोऽप्याकाशसमा भवन्तीत्याह -

आकाशादिति ।

तत्तुल्यतामापन्नाश्च वायुनेतश्चामुतश्च नीयमाना वायुसमा अनुशयिनोऽप्परिवेष्टिता वायुतुल्या भवन्तीत्याह -

आकाशमिति ।

तदनन्तरं यो धूमो गमनदशायामासीत्तत्तुल्यो भवत्यनुशयीत्याह -

वायुरिति ।

ततोऽपां धारणात्सम्भृतोदकं यदभ्रं तत्तुल्योऽनुशयीत्याह -

धूम इति ।

ततो जलसेचनान्मेघो वर्षणकर्ता तत्तुल्यः स सिध्यतीत्याह -

अभ्रमिति ।

तत्सादृश्यमापद्य वर्षधाराभिरनुशयी पृथिवीमापद्यत इत्याह -

मेघ इति ।

अवरोहत्सु देहभृत्सु विषयेष्वाकाशं वायुमिति कर्मत्वोक्तेर्धूमो भवतीत्यादि भवतिश्रुतेश्च सन्देहमाह -

तत्रेति ।

देवयानपितृयाणौ पन्थानौ प्रक्रम्य तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षणत्वम् ।

भवतिश्रुतेश्च सादृश्यलक्षणत्वे हेत्वभावात्तादात्म्यार्थत्वमेवेति पूर्वपक्षयति -

तत्रेत्यादिना ।

अत्र चावरोहरूपसंसारगतिनिरूपणद्वारा वैराग्यदृढीकरणात्पूर्ववत्पादादिसङ्गतयः । पूर्वपक्षे भवतिश्रुतेर्मुख्यार्थत्वसिद्धिः । सिद्धान्ते तूपपत्त्या लाक्षणिकार्थत्वधीः ।

यथेतमाकाशमाकाशाद्वायुमित्यत्र तादात्म्यादृष्टेरन्यस्य चान्यात्मत्वासिद्धेर्नाकाशादितादात्म्यमनुशयिनामिति शङ्कते -

कुत इति ।

वायुर्भूत्वेत्यादौ तादात्म्यसिद्धेर्नहुषादिषु चाजगरादिभावानुभवाद्यथेतमाकाशमित्यादावपि तादात्म्यमेवेति परिहरति -

एवं हीति ।

भवतिश्रुतेः सादृश्यलक्षकत्वेऽपि नानुपपत्तिरित्याशङ्क्याह -

इतरथेति ।

सापि शब्दवृत्तित्वादाश्रितेत्याशङ्क्याह -

श्रुतीति ।

श्रुतेर्मुख्यार्थत्वे तदक्षरानुकूल्यं फलमाह -

तथाचेति ।

पूर्वोक्तप्राकरेण श्रुतेर्मुख्यार्थत्वमाश्रित्यानुशयिनामाकाशादिस्वरूपापत्तावक्षराणि सम्यञ्चि भवन्तीत्यर्थः ।

श्रुत्या पूर्वपक्षमुपसंहरति -

तस्मादिति ।

आकाशादितादात्म्यं प्रत्याख्यातुं प्रयतितव्यमिति पक्षमनुभाष्य सिद्धान्तयति -

एवमिति ।

समानो भावः साभाव्यं सादृश्यं तदापत्तिरिति योजनया प्रतिज्ञां विवृणोति -

आकाशादीति ।

कथं पुनश्चेतनानामनुशयिनामचेतनैराकाशादिभिः सादृश्यमित्याशङ्क्य प्रतिज्ञातमेवार्थं प्रकटयति -

चन्द्रेति ।

प्रतिज्ञासमाप्तावितिशब्दः । उक्तेऽर्थे श्रुतिमुदाहरति -

तदेतदिति ।

भवतिश्रुत्या तादात्म्यमेवोपेयं न तत्सादृश्यमिति शङ्कते -

कुत इति ।

तत्र हेतुमवतार्य व्याकरोति -

उपपत्तेरिति ।

एवं हीत्याकाशादिसादृश्याङ्गीकारे सतीति यावत् । एतदित्याकाशादिभवनमुक्तम् ।

युक्तं हि नहुषादिदेहारम्भकभूतानामजगरादिभावेन परिणामित्वं तद्देहानामयौगपद्यादिह तु सूक्ष्मदेहस्याकाशादेश्चापर्यायत्वान्न परस्परात्मतेत्युक्तमेव साधयति -

नहीति ।

वायुर्भूत्वेत्यादिश्रुतेस्तर्हि का गतिः, तत्राह -

आकाशेति ।

अनुशयिनामाकाशादिभ्यस्तिलमाषान्तेभ्यः स्वेनैव रूपेण निष्क्रमणान्यथानुपपतिरूपश्रुतार्थापत्त्यान्यस्य पूर्वसिद्धान्यभावानुपपत्त्यनुगृहीतया विरोधादुपचरिततद्भावापत्तिविषया श्रुतिरिति भावः ।

आकाशादिना संयोगमात्रं भवतिश्रुत्या लक्ष्यतां किं सादृश्येनेत्याशङ्क्याकाशे तदनुपपत्तेरवैरूप्यार्थं वाय्वादावपि सादृश्यमेवेत्याह -

विभुत्वाच्चेति ।

यदुक्तमेवं सति श्रुतिर्भवतीतरथा लक्षणेति, तत्राह -

श्रुतीति ।

अनुशयिनामाकाशादितादात्म्यायोगात्तत्तुल्यतापत्तेः श्रुत्यर्थत्वात्तत्परिहाराय प्रेक्षाकारिणा प्रयत्नवता भाव्यमित्युपसंहरति -

अत इति ॥ २२ ॥