पूर्वपूर्वसादृश्यङ्गतानामुत्तरोत्तरसादृश्यापत्तिरविलम्बेनेत्याह -
नातिचिरेणेति ।
विषयसंशयौ दर्शयति -
तत्रेति ।
अवरोहत्सु तत्तत्सादृश्यं गतेष्विति यावत् ।
गन्तृभेदेन चिराचिराभ्यां गतिदर्शनात्तमेव संशयं विशदयति -
किमिति ।
शास्त्रमतीन्द्रियार्थे मानं न चेह शास्त्रमस्ति तथाचानिर्धारणेति पूर्वपक्षयति -
तत्रेति ।
न च ‘अतो वै खलु दुर्निष्प्रपतरम्’ इति व्रीह्यादिभावादूर्ध्वमेव विलम्बगमनावगमात्पूर्वमविलम्बसिद्धिरिति वाच्यम् । तत्र दुःखनिःसरणस्यैव विवक्षितत्वेन विलम्बस्यानिष्टत्वात् । नच देहाद्यभावाद्दुःखासिद्धेर्विलम्बाभिप्रायमेतदिति युक्तम् । तथापि प्रकृतसर्वपरामर्शकातःशब्दात्पूर्वस्माद्विलम्बगमनप्रतीतेः सर्वत्र प्रयत्नगौरवं तुल्यमिति भावः । अत्र चाकाशादिभावमारभ्य व्रीह्यादिभावपर्यन्तावरोहरूपसंसारगतेस्तत्तत्सादृश्यरूपायाश्चिराचिरत्वनिरूपणेन वैराग्यस्यैव दृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे सर्वत्र तत्तद्भावपरिहारार्थं प्रयत्नगौरवं कर्तव्यम् । सिद्धान्ते तु तदर्थं कर्तव्यप्रयत्नस्य क्वचिल्लाघवं क्वचिद्गौरवमिति फलभेदः ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां पूरयन्विवृणोति -
एवमिति ।
नियामकशास्त्राभावान्नैतदित्याह -
कुत इति ।
नियामकविषयं हेतुमवतार्य व्याचष्टे -
विशेषेति ।
वाक्यस्य विवक्षितमर्थं वदन्पदं पूरयति -
तकार इति ।
पदं पूरयित्वा पदार्थं वदन्वाक्यार्थमाह -
दुर्निष्क्रमेति ।
कथमेतावताकाशादिभ्यो विलम्बमन्तरेण निःसरणं भाति तत्राह -
तदिति ।
सुखनिःसरणमेवाकाशादिषु विशेषणादालक्ष्यते नाविलम्बनिःसरणमित्याशङ्क्याह -
सुखेति ।
किमर्थमित्थं कल्प्यत आकाशादेः सुखेन निःसरणं व्रीह्यादेस्तु दुःखेनेति यथाश्रुतमेव किं न स्यात् , तत्राह -
तस्मिन्निति ।
अतःशब्दस्य प्रकृतपरामर्शित्वेऽप्येकवाक्योपात्तव्रीह्यादिपरामर्शित्वेन निराकाङ्क्षत्वाद्वाक्यान्तरोपात्ताकाशाद्यपरामर्शित्वादाकाशादिवर्षणान्तादविलम्बेन निःसरणमित्युपसंहरति -
तस्मादिति ।
आकाशादौ व्रीह्यादौ च तद्भावं परिहर्तुं कर्तव्यप्रयत्नस्य लाघवगौरवविशेषं निगमयितुमितीत्युक्तम् ॥ २३ ॥