ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
रेतःसिग्योगोऽथ ॥ २६ ॥
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः, यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते — ‘यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति’ (छा. उ. ५ । १० । ६) इति । न चात्र मुख्यो रेतःसिग्भावः सम्भवति । चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति । कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत ? तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः । तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥

किञ्च वाक्यशेषे संयोगस्यैव तद्भावस्य श्रुतेरुपक्रमेऽपि तद्भावः संयोगान्नार्थान्तरमित्याह -

रेतःसिगिति ।

सूत्रं व्याकरोति -

इतश्चेति ।

प्रकृतोपयोगित्वेनान्नभक्षकं तरुणत्वेन विशिनष्टि -

यो रेत इति ।

तद्भूय एव भवतीति श्रुत्या तद्भावमेवान्नानुगतोऽनुशयी प्रतिपद्यत इत्युच्यते न संयोगमात्रमित्याशङ्क्याह -

नचेति ।

अत्रेत्यद्यमानान्नानुगतोऽनुशयी वाक्यं वा प्रकृतमुच्यते ।

रेतःसिचः स्वभावालोचनया मुख्यस्य तद्भावस्यायोगं स्फोरयति -

चिरेति ।

अनुशयिस्वभावालोचनयापि तमेवार्थं समर्थयते -

कथमिति ।

मुख्यस्य तद्भावस्यायोगे फलितमाह -

तत्रेति ।

तथापि व्रीह्यादिभावे किं जातं तदाह -

तद्वदिति ।

अन्यथोपक्रमोपसंहारयोर्विरोधः स्यात्तत्परिहारार्थमुपसंहारवदुपक्रमोऽपि नेतव्य इत्याह -

इत्यविरोध इति ॥ २६ ॥