ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
योनेः शरीरम् ॥ २७ ॥
अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् — ‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७) इत्यादि । तस्मादप्यवगम्यते — नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति । तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥

तर्हि सर्वत्रानुशयिनां संसर्गमात्रमिति ब्राह्मणयोनिमित्यादिकापि श्रुतिरुपचरितार्थेत्याशङ्क्योक्तम् -

योनेरिति ।

सूत्रं व्याकरोति -

अथेत्यादिना ।

शरीरवत्त्वस्य विशिष्टावसरत्वदर्शनाद्व्रीह्यादिषु नानुशयिनां तद्वत्त्वं नापि सुखाद्यन्वितत्वमिति फलितमाह -

तस्मादिति ।

अनुशयिनां व्रीह्यादिजन्मामुख्यमुपपाद्याधिकरणार्थमुपसंहरति -

तस्मादिति ।

तदेवमिष्टादिकारिणामनिष्टादिकारिणां चारोहावरोहरूपसंसारगतौ सिद्धायां ततो वैराग्यमधिकारिविशेषणतया वाक्यार्थधीसाधनं दृढीकृतं भवतीति पादार्थमुपसंहरति -

इति सिद्धमिति ॥ २७ ॥