ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः । इदानीं तस्यैवावस्थाभेदः प्रपञ्च्यते । इदमामनन्ति — ‘स यत्र प्रस्वपिति’ (बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते’ इत्यादि । तत्र संशयः — किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः, आहोस्विन्मायामयीति । तत्र तावत्प्रतिपाद्यते —

संसारगतिनिरूपणेन ततो दृढीकृतवैराग्यस्य वाक्यार्थावगतये तत्त्वमर्थौ संशोधयितुं पादमारभमाणस्त्वमर्थस्य जाग्रदवस्था संसारनिरूपणेनैव निरूपितेत्युपेत्य स्वयञ्ज्योतिष्ट्वसिद्धये स्वप्नावस्थां वक्तुं पूर्वपक्षयति -

सन्ध्ये सृष्टिरिति ।

वृत्तमनूद्य पादसङ्गतिमाह -

अतिक्रान्त इति ।

संसारस्य पुनःपुनरारोहावरोहरूपत्वात्तस्मिन्नस्वास्थ्ये विरक्तस्य वाक्यार्थज्ञानार्थं पदार्थशोधनाय द्वितीयपादारम्भः । तत्रापि त्वमर्थस्योद्देश्यत्वात् ‘न स्थानतोऽपि’ इत्यतः प्राक्तनस्यावस्थानिर्मुक्तत्वप्रतिपादनाय प्रयत्यते । ततश्चा पादसमाप्तेस्तत्पदार्थो विविच्यते । तत्रापि स्वयञ्ज्योतिष्ट्वस्पाष्ट्यार्थं स्वप्नावस्था प्रथमं व्यवस्थाप्यत इत्यर्थः ।

आरम्भणाधिकरणे स्वप्नस्य मायामयत्वं सिद्धवत्कृत्य जाग्रदवस्थाया मायामयत्वं निरूपितम् । इदानीं तदेव स्वप्नस्य मायामयत्वं प्रकटयितुं तद्विषयवाक्यमुदाहरति -

इदमिति ।

तस्मिन्वाक्ये स्वाप्नीं सृष्टिमधिकृत्य रथादिसर्गाम्नानाद्रथाद्यभावाम्नानाच्च संशयमाह -

तत्रेति ।

पारमार्थिकत्वमर्थक्रियासमर्थत्वमित्यभिप्रेत्य प्रबोध इवेत्युदाहरणमन्यथा तत्रापि वास्तव्याः सृष्टेरनिष्टत्वेन साध्यवैकल्यात् । मायामयत्वं प्रातीतिकसत्तामात्रोपेतत्वम् । अत्र च त्वमर्थस्य स्वप्नावस्थानिरूपणेन ततो निष्कृष्टस्य स्वयञ्ज्योतिषः शुद्धतया वाक्यार्थान्वयित्वेन तद्धेतुत्वमस्तीति तत्प्रतिपादनात्पादादिसङ्गतयः । पूर्वपक्षे स्वप्नस्य सत्यतया ततो निष्कर्षायोगादशुद्धस्यस्यास्वयञ्ज्योतिषो वाक्यार्थान्वयासिद्धिः ।

सिद्धान्ते तस्य मिथ्यात्वात्ततो निष्कृष्टस्य स्वयञ्ज्योतिष्ट्वात्तदन्वयेन तद्धीहेतुत्वमिति मत्वा पूर्वपक्षमुपादत्ते -

तत्रेति ।