संसारगतिनिरूपणेन ततो दृढीकृतवैराग्यस्य वाक्यार्थावगतये तत्त्वमर्थौ संशोधयितुं पादमारभमाणस्त्वमर्थस्य जाग्रदवस्था संसारनिरूपणेनैव निरूपितेत्युपेत्य स्वयञ्ज्योतिष्ट्वसिद्धये स्वप्नावस्थां वक्तुं पूर्वपक्षयति -
सन्ध्ये सृष्टिरिति ।
वृत्तमनूद्य पादसङ्गतिमाह -
अतिक्रान्त इति ।
संसारस्य पुनःपुनरारोहावरोहरूपत्वात्तस्मिन्नस्वास्थ्ये विरक्तस्य वाक्यार्थज्ञानार्थं पदार्थशोधनाय द्वितीयपादारम्भः । तत्रापि त्वमर्थस्योद्देश्यत्वात् ‘न स्थानतोऽपि’ इत्यतः प्राक्तनस्यावस्थानिर्मुक्तत्वप्रतिपादनाय प्रयत्यते । ततश्चा पादसमाप्तेस्तत्पदार्थो विविच्यते । तत्रापि स्वयञ्ज्योतिष्ट्वस्पाष्ट्यार्थं स्वप्नावस्था प्रथमं व्यवस्थाप्यत इत्यर्थः ।
आरम्भणाधिकरणे स्वप्नस्य मायामयत्वं सिद्धवत्कृत्य जाग्रदवस्थाया मायामयत्वं निरूपितम् । इदानीं तदेव स्वप्नस्य मायामयत्वं प्रकटयितुं तद्विषयवाक्यमुदाहरति -
इदमिति ।
तस्मिन्वाक्ये स्वाप्नीं सृष्टिमधिकृत्य रथादिसर्गाम्नानाद्रथाद्यभावाम्नानाच्च संशयमाह -
तत्रेति ।
पारमार्थिकत्वमर्थक्रियासमर्थत्वमित्यभिप्रेत्य प्रबोध इवेत्युदाहरणमन्यथा तत्रापि वास्तव्याः सृष्टेरनिष्टत्वेन साध्यवैकल्यात् । मायामयत्वं प्रातीतिकसत्तामात्रोपेतत्वम् । अत्र च त्वमर्थस्य स्वप्नावस्थानिरूपणेन ततो निष्कृष्टस्य स्वयञ्ज्योतिषः शुद्धतया वाक्यार्थान्वयित्वेन तद्धेतुत्वमस्तीति तत्प्रतिपादनात्पादादिसङ्गतयः । पूर्वपक्षे स्वप्नस्य सत्यतया ततो निष्कर्षायोगादशुद्धस्यस्यास्वयञ्ज्योतिषो वाक्यार्थान्वयासिद्धिः ।
सिद्धान्ते तस्य मिथ्यात्वात्ततो निष्कृष्टस्य स्वयञ्ज्योतिष्ट्वात्तदन्वयेन तद्धीहेतुत्वमिति मत्वा पूर्वपक्षमुपादत्ते -
तत्रेति ।