ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
कालविसंवादोऽपि च स्वप्ने भवति — रजन्यां सुप्तो वासरं भारते वर्षे मन्यते; तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति । निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते । करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति । रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा । बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे । स्वप्न एव च एते सुलभबाधा भवन्ति, आद्यन्तयोर्व्यभिचारदर्शनात् — रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् — ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ (बृ. उ. ४ । ३ । १०) इत्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम् ॥ ३ ॥

श्रुतियुक्तिभ्यामन्तरेव स्वप्ने सिद्धे सतीत्यर्थः । विप्रलम्भो विभ्रमः । योग्यदेशायोगं स्वप्नस्योक्त्वा तादृक्कालायोगं स्पष्टयति -

कालेति ।

अत्र रात्रिसमयेऽपि केतुमालादौ वर्षान्तरे वासरो भवतीति भारत इत्युक्तम् ।

विधान्तरेण कालविसंवादमाह -

तथेति ।

योग्यकालायोगमुक्त्वा तादृङ्निमित्तायोगमाह -

निमित्तान्यपीति ।

बुद्ध्यर्थं योग्यनिमित्तायोगं साधयति -

करणेति ।

अस्येति स्वप्नद्रष्टुरुक्तिः ।

कर्मार्थं योग्यनिमित्ताभावमाह -

रथादीति ।

अबाधासम्भवं विभजते -

बाध्यन्ते चेति ।

न केवलं प्रबोधे बाध्यत्वं स्वप्नेऽपीत्याह -

स्वप्न इति ।

आदावन्ते च व्यभिचारधीर्जागरेऽपि तुल्येत्याशङ्क्य विशेषमाह -

रथोऽयमिति ।

न केवलमध्यक्षं स्वप्ने रथादीनां बाध्यत्वं किन्तु श्रुतमपीत्याह -

स्पष्टं चेति ।

योग्यदेशाद्यभावेन सिद्धमर्थमुपसंहरति -

तस्मादिति ॥ ३ ॥