ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति — नेत्युच्यते — सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः । तथा हि श्रूयते — ‘यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने’ (छा. उ. ५ । २ । ८) इति । तथा ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति । आचक्षते च स्वप्नाध्यायविदः — कुञ्जरारोहणादीनि स्वप्ने धन्यानि, खरयानादीन्यधन्यानि’ इति । मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् । सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् , बाध्यमानत्वादित्यभिप्रायः । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥

स्वप्नस्य मायामात्रत्वे शुभाशुभफलत्वान्वयव्यतिरेकाभ्यां शास्त्रेण च विरोधः स्यादित्याशङ्क्याह -

सूचकश्चेति ।

सूत्रव्यावर्त्यामाशङ्कामाह -

मायेति ।

विरोधद्वयं प्रत्याह -

नेतीति ।

तत्र प्रथमं श्रुतिविरोधं निरस्यति -

सूचकश्च हीति ।

स्वप्नो भविष्यतः साधुनः सूचक इत्यत्र श्रुतिमुक्त्वा तादृशोऽसाधुनोऽपि सूचकोऽसावित्यत्र श्रुतिमाह -

तथेति ।

अन्वयव्यतिरेकविरोधसमाधिं स्फुटयति -

आचक्षते चेति ।

इतश्चोभयविरोधवैधुर्यमित्याह -

मन्त्रेति ।

तर्हि शुभाशुभसूचकत्वानुपपत्त्या स्वप्नस्य सत्यत्वान्न मायामात्रत्वमित्याशङ्क्यार्थक्रियाकारित्वेऽपि परमार्थत्वाभावान्मिथ्यात्वमित्याह -

तत्रापीति ।

स्वप्नस्य सत्यार्थसूचकत्वेऽपीति यावत् ।

द्विविधविरोधसमाधिफलमुपसंहरति -

तस्मादिति ।