ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
अथापि स्यात् — परस्यैव तावदात्मनोंऽशः जीवः — अग्नेरिव विस्फुलिङ्गः । तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः, एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती । ततश्च जीवस्य ज्ञानैश्वर्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति । अत्रोच्यते — सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् । किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव ? न नास्त्येव । विद्यमानमपि तत् तिरोहितम् अविद्यादिव्यवधानात् । तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य — तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् — ईश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव, सर्वेषां जन्तूनाम् । कुतः ? ततो हि ईश्वराद्धेतोः, अस्य जीवस्य, बन्धमोक्षौ भवतः — ईश्वरस्वरूपापरिज्ञानात् बन्धः, तत्स्वरूपपरिज्ञानात्तु मोक्षः । तथा च श्रुतिः — ‘ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः’ (श्वे. उ. १ । ११) इत्येवमाद्या ॥ ५ ॥

यदुक्तं स्वप्नो योग्यनिमित्ताभावान्मिथ्येति तन्न, जीवसङ्कल्पस्यैव निमित्तत्वसिद्धेरित्याशङ्क्याह -

परेति ।

सूत्रव्यावर्त्यमाह -

अथापीति ।

पूर्वोक्तरीत्या मिथ्यात्वे स्वप्नस्योक्तेऽपीत्यर्थः ।

जीवेश्वरयोरंशांशित्वेऽपि किं स्यात् , तत्राह -

तत्रेति ।

तस्मिञ्जीवे परस्यांशे श्रुतिस्मृतिसिद्धे सतीति यावत् ।

ज्ञानैश्वर्यशक्तिसाम्ये फलितमाह -

ततश्चेति ।

नाविद्यामयी स्वप्नसृष्टिः किन्तु साङ्कल्पिकी सत्येति चोद्यमनूद्योत्सूत्रं परिहरति -

अत्रेति ।

असर्वज्ञत्वानीश्वरत्वयोरध्यक्षत्वान्न जीवस्य सङ्कल्पादेव रथादिसृष्टिरित्यर्थः ।

तर्हि विरुद्धत्वादेव न तयोरैक्यमिति शङ्कते -

किमिति ।

प्रातीतिके विरोधेऽपि वस्तुतस्तदभावादैक्यमित्याह -

न नेति ।

किमिति तर्हि जीवे सर्वज्ञत्वादि न भातीत्याशङ्क्य सूत्रं योजयति -

विद्यमानमिति ।

अविद्यादीत्यादिपदं तत्कार्यार्थम् ।

यन्न कदाचिदुपलभ्यते तस्य सत्यत्वमेव कथं, तत्राह -

तदिति ।

आदरदीर्घकालनैरन्तर्यत्रयवत्त्वं ध्यानस्य सूचयति -

यतमानस्येति ।

ध्यानकार्यमीश्वरप्रसादप्रतिबन्धकपापध्वंसं दर्शयति -

विधूतेति ।

किमिति तर्हि सर्वेषामीश्वरध्यायिनां तन्नाविर्भवति, तत्राह -

संसिद्धस्येति ।

अणिमादिविशिष्टस्येति यावत् ।

ततः स्वतोव्यक्तौ हेतुं पृच्छति -

कुत इति ।

सूत्रपदेनोत्तरम् -

ततो हीति ।

कथमीश्वरस्य विरुद्धफलहेतुतेत्याशङ्क्य विभजते -

ईश्वरेति ।

तत्र मानमाह -

तथाचेति ।

परमात्मैवाहमिति साक्षादनुभूय सर्वपाशानामविद्यारागादिबन्धनानामपहानिरपक्षयो भवति ।

क्षीणैश्च क्लेशैस्तत्कार्यजन्ममृत्युध्वंस इति निर्गुणविद्याफलमुक्तम् । सगुणविद्याफलमाह -

तस्येति ।

परस्याभिमुख्येन ध्यानाद्बन्धमोक्षापेक्षया वा मन्त्रोक्तपाशहानिजन्मादिप्रहाणसिद्धिद्वयापेक्षया वा तृतीयम् । अणिमाद्यैश्वर्यं देहभेदे देहविशेषे सिद्धदेहे साधकदेहपाते वा सति जगत्कारणसायुज्यापत्त्या भवति । ततश्च विश्वैश्वर्यं निरतिशयैश्वर्यं भुक्त्वा निर्गुणविद्योदये केवलोऽद्वितीयः सन्नाप्तकामो निरतिशयानन्दात्मनैव तिष्ठतीति क्रममुक्तिरित्यर्थः ॥ ५ ॥