जीवस्य स्वत एवानाविर्भूतज्ञानैश्वर्यतया सङ्कल्पमात्रं न स्रष्टृतेत्युक्तं तत्र हेत्वसिद्धिमाशङ्क्याह -
देहयोगाद्वा सोऽपीति ।
सूत्रव्यावर्त्यमाह -
कस्मादिति ।
आक्षेपं विवृणोति -
युक्तं त्विति ।
पारमार्थिकस्य प्रतिबन्धस्याभावः साध्यते प्रातिभासिकस्य वेति विकल्पयति -
उच्यत इति ।
आद्यमङ्गीकरोति -
सत्यमिति ।
द्वितीयं दूषयति -
सोऽपीति ।
सूत्रे देहशब्देन स्थूलं सूक्ष्मं च देहं गृहीत्वा व्याचष्टे -
देहेति ।
वेदनाशब्देन सुखादयो गृह्यन्ते । आदिशब्देन तद्धेतुरविद्या ।
तद्धर्मकस्यैवान्यसम्पर्कतिरस्कारे दृष्टान्तमाह -
अस्तीति ।
अरणिस्थोऽग्निरस्तीत्येतदेव सन्दिग्धमित्याशङ्क्याह -
यथा वेति ।
दार्ष्टान्तिकमाह -
एवमिति ।
सूत्रे वाशब्दस्य पक्षान्तरद्योतित्वमाशङ्क्याह -
वाशब्द इति ।
तत्रान्यत्वाशङ्कां दर्शयति -
नन्विति ।
तद्व्यावृत्तिं विशदयति -
नेतीति ।
इतश्च न वास्तवमन्यत्वमित्याह -
तदिति ।
अनन्यत्वे फलितमाह -
अत इति ।
जीवस्य ज्ञानादितिरोभावेऽपि किं स्यात् , तत्राह -
अतश्चेति ।
साङ्कल्पिकत्वे दोषान्तरमाह -
यदि चेति ।
तत्र हेतुः -
नहीति ।
परोक्तमनूद्य निरस्यति -
यदिति ।
स्वप्नेऽपि जागरवदर्थेन्द्रियसत्त्वे दुर्विवेचनतया साध्यं स्वयञ्ज्योतिष्ट्वं न सिध्येदित्याह -
स्वयमिति ।
इतश्च न स्वप्नस्य सत्यत्वार्थमेव तद्वाक्यमित्याह -
श्रुत्येति ।
तर्हि केनाभिप्रायेणेदं साम्यमुक्तं, तत्राह -
जागरितेति ।
स्वप्नस्य जागरितेन तुल्यनिर्भासत्वाभिप्रायं साम्यवचनमिति शेषः ।
स्वप्नस्य सत्यत्वसाधकाभावे मिथ्यात्वसाधके च फलितमुपसंहरति -
तस्मादिति ॥ ६ ॥