ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
स्वप्नावस्था परीक्षिता । सुषुप्तावस्थेदानीं परीक्ष्यते । तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति । क्वचिच्छ्रूयते — ‘तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इति । अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते — ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (बृ. उ. २ । १ । १९) इति । तथान्यत्र नाडीरेवानुक्रम्य — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. उ. ४ । १९) इति; तथान्यत्र — ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति; तथान्यत्र — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति । तथा — ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति च ॥

बाह्यकरणोपरमं स्वप्नमात्मनः स्वयञ्ज्योतिष्ट्वार्थं निरूप्यान्तःकरणोपरमं सुषुप्तं तस्य ब्रह्मत्वाय निरूपयति -

तदभाव इति ।

अधिकरणसङ्गतिमाह -

स्वप्नेति ।

स्वप्नाभावस्य प्रतियोगिस्वप्नाधीननिरूपणत्वाद्धेतुहेतुमत्तेत्यर्थः ।

विषयवाक्यान्युदाहरति -

तत्रेति ।

सुषुप्तिचिन्ताप्रस्तावः सप्तम्यर्थः । तत्तत्र तास्ववस्थासु मध्ये सुषुप्तिरुच्यते । यस्यामवस्थायामेत्स्वपनं यथा स्यात्तथा सुप्तः । समस्तः संवृतसर्वबाह्येन्द्रियः । सम्प्रसन्नः संवृतान्तःकरणश्चेत्यर्थः ।

नाडीपुरीततोः समुच्चयवाक्यं पठति -

अन्यत्रेति ।

नाडीपरमात्मनोः समुच्चयवाक्यं दर्शयति -

तथेति ।

परमात्ममात्रविषयाणि वाक्यान्तराण्याह -

तथेति ।