नाडीपुरीतद्ब्रह्मसु सप्तमीश्रुतेः समुच्चयोक्तेश्च संशयमाह -
तत्रेति ।
अत्र स्वापनिरूपणद्वारा ब्रह्माभिन्नत्वमर्थसिद्धेर्वाक्यार्थधीसम्भवात्पादादिसङ्गतिः । पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानियमः ।
सिद्धान्ते नाडीपुरीतद्द्वारा ब्रह्मस्थानत्वनियमाज्जीवस्य ब्रह्मात्मत्वनियतिरित्यभिसन्धाय विमृश्य पूर्वपक्षयति -
किमिति ।
नाडीपुरीतद्ब्रह्मणां विकल्पे प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
एकार्थत्वेऽपि समुच्चये का क्षतिः, तत्राह -
नहीति ।
एकार्थत्वमेव नाड्यादिषु कथं, तत्राह -
नाड्यादीनां चेति ।
एकार्थता निरपेक्षस्वापाधारतेति यावत् ।
अस्मिन्प्राण एवैकधा भवतीत्यपि वाक्ये सप्तम्या चेदाधारत्वं तर्हि सतस्तृतीयोक्तेर्नाधारतेति शङ्कते -
नन्विति ।
सप्तम्यभावेऽपि तदर्थसिद्धेराधारत्वं सतोऽपि स्यादित्याह -
नैष इति ।
तत्रापि सत्यपि नाड्यादाविवेत्यर्थः ।
तस्य गम्यमानत्वमेव दर्शयति -
वाक्येति ।
तत्र सता सोम्येत्यादाविति यावत् ।
प्राणस्यायतनत्वेऽपि किं सतः स्यात् , तत्राह -
प्राणेति ।
तथापि कथं सप्तम्यर्थस्य गम्यमानत्वं, तत्राह -
आयतनं चेति ।
सति सप्तमीनिर्देशस्यासत्त्वमुपेत्योक्तं तदपि नास्तीत्याह -
सप्तमीति ।
विशेषज्ञानोपरमलक्षणस्वापस्य नाडीपुरीततोरयोगात्तयोर्न सुप्तिस्थानतेत्याशङ्क्य शास्त्रप्रामाण्यमाश्रित्याह -
सर्वत्रेति ।
न च जीवाधारत्वं नाड्यादेरयुक्तं बुद्ध्युपाधिकजीवाधारत्वाविरोधात् । नच विकल्पेऽन्यतरबाधाद्युक्तः समुच्चयस्तत्रापि प्रत्येकं सप्तमीश्रुतिसिद्धनिरपेक्षाधारत्वस्यात्यन्तबाधात् ।
ताभिः प्रत्यवसृप्येत्यादौ तु कदाचिन्नाड्य एव कदाचित्ताभिः सञ्चरमाणस्य पुरीतदेव कदाचित्ताभिरेव सञ्चरतो ब्रह्मैवाधार इति युक्तमन्यथा निरपेक्षाधारत्वश्रुतिविरोधादिति मत्वोपसंहरति -
तस्मादिति ।
विकल्पे जीवस्य ब्रह्मैक्यमनियतमिति फलितं वक्तुमितिशब्दः ।