ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
एवं प्राप्ते, प्रतिपाद्यते — तदभावो नाडीष्वात्मनि चेति । तदभाव इति, तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः सुषुप्तमित्यर्थः । नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापायोपसर्पति, न विकल्पेन — इत्यर्थः । कुतः ? तच्छ्रुतेः । तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते । तच्च समुच्चये सङ्गृहीतं भवति । विकल्पे ह्येषाम् , पक्षे बाधः स्यात् । ननु एकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत् — इत्युक्तम्; नेत्युच्यते — न हि एकविभक्तिनिर्देशमात्रेण एकार्थत्वं विकल्पश्च आपतति, नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनात् — प्रासादे शेते पर्यङ्के शेते इत्येवमादिषु, तथा इहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीति उपपद्यते समुच्चयः । तथा च श्रुतिः — ‘तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति’ (कौ. उ. ४ । १९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति, एकवाक्योपादानात् । प्राणस्य च ब्रह्मत्वं समधिगतं — ‘प्राणस्तथानुगमात्’ (ब्र. सू. १ । १ । २८) इत्यत्र । यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति — ‘आसु तदा नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इति, तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणोऽप्रतिषेधात् नाडीद्वारेण ब्रह्मण्येवावतिष्ठत इति प्रतीयते । न चैवमपि नाडीषु सप्तमी विरुध्यते, नाडीद्वारापि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति — यो हि गङ्गया सागरं गच्छति, गत एव स गङ्गायां भवति । भवति च अत्र रश्मिनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थं सृप्तिसङ्कीर्तनम् — ‘नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३) इत्युक्त्वा ‘तं न कश्चन पाप्मा स्पृशति’ (छा. उ. ८ । ६ । ३) इति ब्रुवन् नाडीः प्रशंसति । ब्रवीति च पाप्मस्पर्शाभावे हेतुम् ‘तेजसा हि तदा सम्पन्नो भवति’ (छा. उ. ८ । ६ । ३) इति — तेजसा नाडीगतेन पित्ताख्येन अभिव्याप्तकरणो न बाह्यान् विषयानीक्षत इत्यर्थः । अथवा तेजसेति ब्रह्मण एवायं निर्देशः, श्रुत्यन्तरे । ‘ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति तेजःशब्दस्य ब्रह्मणि प्रयुक्तत्वात् । ब्रह्मणा हि तदा सम्पन्नो भवति नाडीद्वारेण, अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः — ब्रह्मसम्पत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः ‘सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः’ (छा. उ. ८ । ४ । १) इत्यादिश्रुतिभ्यः । एवं च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति । तथा पुरीततोऽपि ब्रह्मप्रक्रियायां सङ्कीर्तनात् तदनुगुणमेव सुषुप्तिस्थानत्वं विज्ञायते — ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते — ‘पुरीतति शेते’ (बृ. उ. २ । १ । १९) इति । पुरीतदिति हृदयपरिवेष्टनमुच्यते । तदन्तर्वर्तिन्यपि हृदयाकाशे शयानः शक्यते ‘पुरीतति शेते’ इति वक्तुम् — प्राकारपरिक्षिप्तेऽपि हि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते । हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् ‘दहर उत्तरेभ्यः’ (ब्र. सू. १ । ३ । १४) इत्यत्र । तथा नाडीपुरीतत्समुच्चयोऽपि ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (बृ. उ. २ । १ । १९) इत्येकवाक्योपादानात् अवगम्यते । सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् । एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि सङ्कीर्तितानि — नाड्यः पुरीतत् ब्रह्म चेति । तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम् । अपि च नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति — तत्रास्य करणानि वर्तन्त इति । न हि उपाधिसम्बन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्सम्भवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् । ब्रह्माधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्यते । कथं तर्हि ? तादात्म्याभिप्रायेण; यत आह — ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १) इति; स्वशब्देन आत्मा अभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः । अपि च न कदाचिज्जीवस्य ब्रह्मणा सम्पत्तिर्नास्ति, स्वरूपस्यानपायित्वात् । स्वप्नजागरितयोस्तूपाधिसम्पर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्ते स्वरूपापत्तिर्विवक्ष्यते — ‘स्वमपीतो भवति’ इति । अतश्च सुषुप्तावस्थायां कदाचित्सता सम्पद्यते, कदाचिन्न सम्पद्यते — इत्ययुक्तम् । अपि च स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते । तत्र सति सम्पन्नस्तावत् एकत्वात् न विजानातीति युक्तम् , ‘तत्केन कं विजानीयात्’ (छा. उ. २ । ४ । १४) इति श्रुतेः । नाडीषु पुरीतति च शयानस्य न किञ्चित् अविज्ञाने कारणं शक्यं विज्ञातुम् , भेदविषयत्वात् , ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४ । ३ । ३१) इति श्रुतेः । ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात्; बाढमेवं स्यात् , यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत — यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यतीति । न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते । उपाधिगतमेवातिदूरादिकारणम् अविज्ञाने इति यद्युच्येत, तथाप्युपाधेरुपशान्तत्वात् सत्येव सम्पन्नः न विजानातीति युक्तम् । न च वयमिह तुल्यवत् नाड्यादिसमुच्चयं प्रतिपादयामः । न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति । न ह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते । नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते । ब्रह्म तु अनपायि सुप्तिस्थानम् — इत्येतत्प्रतिपादयामः । तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च । तस्मादात्मैव सुप्तिस्थानम् ॥ ७ ॥
एवमिति ; तदित्यादिना ; समुच्चयेनेति ; कुतइत्यादिना ; विकल्पे हीति ; नन्विति ; नेतीति ; नहीति ; तथेति ; तथाचेति ; समुच्चयमिति ; एकेति ; प्राणस्येति ; यत्रेति ; नचेति ; नाडीभिरिति ; यो हीति ; अपिचेति ; अत्रेति ; नाडीष्विति ; ब्रवीतीति ; तेजसेति ; अथवेति ; ब्रह्मेति ; एवं चेति ; तथेति ; य इति ; तदिति ; प्राकारेति ; हृदयेति ; तथेति ; सदिति ; एवमिति ; तत्रेति ; अपिचेति ; तत्रेति ; नहीति ; ब्रह्मेति ; यत इति ; स्वेति ; अपिचेति ; स्वप्नेति ; अतश्चेति ; अपिचेति ; स्थानेति ; तत्रेति ; तदिति ; नाडीष्विति ; यत्रेति ; नन्विति ; बाढमिति ; यथेति ; न त्विति ; उपाधीति ; तथापीति ; नचेति ; नहीति ; नहीति ; नापीति ; ब्रह्म त्विति ; तेनेति ; तस्मादिति ॥ ७ ॥ ;

पूर्वपक्षमनूद्य सिद्धान्तमाह -

एवमिति ।

प्रतिज्ञां विभजते -

तदित्यादिना ।

चकारेण पुरीतदुक्तिं गृहीत्वाह -

समुच्चयेनेति ।

समुच्चये सिद्धान्ते प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे -

कुतइत्यादिना ।

नाड्यादीनां सुप्तिस्थानत्वश्रुतिर्विकल्पेऽपि स्यादित्याशङ्क्याह -

विकल्पे हीति ।

तेषामन्यतमस्य सुप्तिस्थानत्वे नान्यतमस्य तदिति पक्षे बाधः स चायुक्तो बाधस्यागतिकगतित्वादित्यर्थः ।

परोक्तं विकल्पहेतुमनुवदति -

नन्विति ।

दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाह -

नेतीति ।

प्रकृतदर्शादिसाधनीभूतपुरोडाशप्रकृतितया व्रीहियवौ श्रुतौ, समर्थौ च निरपेक्षतया पुरोडाशं कर्तुं तयोर्मिथोपेक्षायामनपेक्षसाधनत्वार्थकश्रुतिबाधादनन्यगतित्वेन विकल्पाश्रयणम् । नाड्यादीनां तु न प्रत्येकं स्वापसाधने शक्तिरिति वक्ष्यते, नापि मानमिति भावः । यत्त्वेकार्थत्वं तत्किं मानान्तरसिद्धं किंवा सप्तमीसिद्धम् । नाद्यः । तदनुपलम्भात् ।

न द्वितीय इत्याह -

नहीति ।

प्रासादस्य पर्यङ्कधारणार्थत्वं पर्यङ्कस्य शयनार्थतेति नानार्थत्वेऽप्येकविभक्तिनिर्देशः । व्यवधानाव्यवधानाभ्यां च शयनसाधनत्वसमुच्चयः ।

तद्वदमूषु श्रुतिष्वपि नाड्यादिषु सप्तमीसमुच्चयश्चेत्याह -

तथेति ।

अनेकश्रुतिसामर्थ्यालोचनया समुच्चयमुक्त्वा तत्रैव श्रुतिमाह -

तथाचेति ।

उक्तश्रुतेस्तात्पर्यमाह -

समुच्चयमिति ।

तत्र हेतुः -

एकेति ।

नाडीनां प्राणस्य चैकेन वाक्येनोपादानान्मिथः समुच्चय इत्यर्थः ।

प्राणस्य नाडीसमुच्चयेऽपि ब्रह्मणस्ताभिः समुच्चये किं जातं, तत्राह -

प्राणस्येति ।

समुच्चये श्रुत्यन्तरं नैरपेक्ष्यद्योति विरुध्येतेत्याशङ्क्याह -

यत्रेति ।

नाडीनां द्वारत्वे कथमधिकरणश्रुतिः, तत्राह -

नचेति ।

नाड्यादौ सप्तम्याः सामीप्यमर्थमादाय ब्रह्मण्यधिकरणार्थत्वेऽपि न तद्विरोधोऽस्तीत्यर्थः ।

विरोधाभावं साधयति -

नाडीभिरिति ।

तदेव दृष्टान्तेन स्पष्टयति -

यो हीति ।

इतश्च ब्रह्मैवैकं स्वापाधिकरणमित्याह -

अपिचेति ।

तर्हि नाडीषु सुप्तिसङ्कीर्तनमनर्थकमित्याशङ्क्य हेत्वन्तरमेव स्फोरयति -

अत्रेति ।

नाडीप्रकरणं सप्तम्यर्थः ।

मार्गोपदेशायोक्तानां नाडीनां स्तुत्यर्थं सुप्तिकीर्तनमित्यत्र गमकमाह -

नाडीष्विति ।

तासु सुप्तस्य पाप्मास्पर्शे को हेतुः, तत्राह -

ब्रवीतीति ।

हेतुं विभजते -

तेजसेति ।

विषयदर्शनाभावे तदुत्थसुखाद्यभावात्तद्धेतुधर्माद्यनुमानायोगात्पाप्मभिरस्पर्श इति शेषः ।

हेतुवाक्यं विधान्तरेण व्याकरोति -

अथवेति ।

ब्रह्मसम्पत्तावपि कथं पापास्पर्शः, तत्राह -

ब्रह्मेति ।

कतरद्व्याख्यानमादेयं द्वितीयमित्याह -

एवं चेति ।

नाडीनां ब्रह्मप्राप्तिद्वारत्वे सतीति यावत् ।

नाडीद्वारा ब्रह्मणः स्वापस्थानत्वे क्वचित्ताभिः प्रत्यवसृप्य पुरीतति शेत इति पुरीतदुक्तिर्वृथेत्याशङ्क्य पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -

तथेति ।

उक्तमेव विवृणोति -

य इति ।

आकाशे शेते, चेत्पुरीतति कथं शेते, तत्राह -

तदिति ।

तदेव दृष्टान्तेन स्पष्टयति -

प्राकारेति ।

पुरीतदाकाशसमुच्चयेऽपि कथं पुरीतद्ब्रह्मणोः समुच्चयः, तत्राह -

हृदयेति ।

नाडीब्रह्मणोरिव पुरीतद्ब्रह्मणोरपि समुच्चयमुक्त्वा नाडीपुरीततोः समुच्चयमाह -

तथेति ।

सत्प्राज्ञयोरपि सुप्तिस्थानत्वोक्तेस्त्रयाणामेव कथं समुच्चयोक्तिरित्याशङ्क्याह -

सदिति ।

समुच्चयपक्षमुपसंहरति -

एवमिति ।

तेष्ववान्तरविभागमाह -

तत्रेति ।

नाडीपुरीततोर्द्वारत्वे हेत्वन्तरमाह -

अपिचेति ।

तयोरुपाध्याधारत्वमपि कथं, तत्राह -

तत्रेति ।

नाडीषु पुरीतति च जीवस्योपाध्यन्तर्भूतानि करणानि कर्माणि तिष्ठन्तीत्युपाध्याधारत्वं तयोरुक्तम् । जीवस्य त्वाधारो ब्रह्मैवेत्यर्थः ।

किमिति तयोः साक्षादेव जीवाधारत्वं नेष्टं, तत्राह -

नहीति ।

तर्हि ब्रह्मणोऽपि कुतो जीवाधारत्वमैक्यादित्याशङ्क्याह -

ब्रह्मेति ।

तादात्म्याभिप्रायेण स्वापे जीवस्य ब्रह्माधारत्वोक्तिरित्यत्र लिङ्गमाह -

यत इति ।

स्वशब्दस्य स्वकीयार्थत्वान्न तादात्म्यमत्र भातीत्याशङ्क्य पदार्थोक्त्या वाक्यार्थमाह -

स्वेति ।

जीवस्य ब्रह्मैक्यमेव नाडीपुरीततोस्तु तदुपाध्याधारतया तदाधारतेत्यतुल्यार्थत्वान्न विकल्पोऽस्तीत्युक्तम् । इदानीं विकल्पायोगे हेत्वन्तरमाह -

अपिचेति ।

जीवस्य चेदौत्सर्गिकं ब्रह्मत्वं तर्हि किमिति स्वापे तस्य तद्रूपत्वमुच्यते, तत्राह -

स्वप्नेति ।

सुषुप्तेरपवादाभावाज्जीवस्य ब्रह्मतादात्म्ये फलितमाह -

अतश्चेति ।

इतश्च विकल्पासिद्धिरित्याह -

अपिचेति ।

हेत्वन्तरमेव स्फोरयन्विकल्पवादिनोऽपि संमतमर्थमाह -

स्थानेति ।

क्वचिदिति नाडीपुरीतद्ब्रह्मणामन्यतमोक्तिः । अन्यथा सुप्तिभङ्गो जागरादिवदिति भावः ।

स्वापस्यैवंरूपत्वेऽपि विकल्पे कानुपपत्तिः, तत्राह -

तत्रेति ।

एकत्वमद्वैतावस्थात्वम् ।

सति सम्पन्नस्य विशेषज्ञानाभावे मानमाह -

तदिति ।

अवशिष्टेऽपि स्थानद्वये यथोक्तं सुषुप्तं युक्तमेवेत्याशङ्क्याह -

नाडीष्विति ।

नाड्यादिगोचरस्य पुंसो द्वैतावस्थत्वाद्विशेषाज्ञाने नास्ति हेतुरित्यर्थः ।

द्वैतावस्थस्य विशेषज्ञाननियमे मानमाह -

यत्रेति ।

तस्यापि विशेषाज्ञाने हेतुं शङ्कते -

नन्विति ।

भिद्यत इति भेदो भिद्यमानस्य विषयस्यापीत्यर्थः । जीवस्यातिदूरत्वं स्वाभाविकमौपाधिकं वा ।

तत्राद्यं दूषयति -

बाढमिति ।

स्वाभाविकमपि दूरत्वमज्ञाने हेतुरित्यत्र दृष्टान्तमाह -

यथेति ।

अस्तु प्रस्तुतेऽपि तादृगतिदूरत्वमज्ञानहेतुर्नेत्याह -

न त्विति ।

द्वितीयमनुवदति -

उपाधीति ।

तर्हि विकल्पासिद्धिरित्याह -

तथापीति ।

सुप्तिदशायामुपाधिपरिच्छेदाङ्गीकारे च कतिपयसंनिहितार्थज्ञानप्रसङ्गादशेषविशेषज्ञानशून्यतायै निरूपाधितया जीवस्य ब्रह्मरूपेणावस्थानमास्थेयमित्यर्थः ।

उपाधीनामुपशमे कथं नाड्यादिसमुच्चयोक्तिः, तत्राह -

नचेति ।

इहेति स्वापस्थानमुक्तम् । गुणप्रधानत्वेन समुच्चयोक्तिरित्यर्थः ।

किञ्च नाड्यादीनां स्वापस्थानत्वोक्तेरफलत्वान्न समुच्चयो विकल्पो वेत्याह -

नहीति ।

कथमस्याफलत्वमित्याशङ्क्य स्वातन्त्र्येण वा फलवदङ्गत्वेन वा फलवत्त्वमिति विकल्प्याद्यं प्रत्याह -

नहीति ।

द्वितीयं दूषयति -

नापीति ।

विकल्पसमुच्चययोरप्रतिपाद्यत्वे किमत्र प्रतिपाद्यं, तदाह -

ब्रह्म त्विति ।

तद्विज्ञानेऽपि तुल्यमफलत्वमित्याशङ्क्याधिकरणत्वज्ञानस्य प्रयोजनमाह -

तेनेति ।

ब्रह्म स्वापस्थानमिति ज्ञानस्य फलवत्त्वे फलितमाह -

तस्मादिति ॥ ७ ॥