ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अतः प्रबोधोऽस्मात् ॥ ८ ॥
यस्माच्च आत्मैव सुप्तिस्थानम् , अत एव च कारणात् नित्यवदेव अस्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते, ‘कुत एतदागात्’ (बृ. उ. २ । १ । १६) इत्यस्य प्रश्नस्य प्रतिवचनावसरे — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः’ (बृ. उ. २ । १ । २०) इत्यादिना, ‘सत आगम्य न विदुः सत आगच्छामहे’ (छा. उ. ६ । १० । २) इति च । विकल्प्यमानेषु तु सुषुप्तिस्थानेषु, कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मनः — इत्यशासिष्यत् । तस्मादप्यात्मैव सुप्तिस्थानमिति ॥ ८ ॥

ब्रह्मण एव प्रबोधापादानत्वोक्तेरपि तदेव सुप्तिस्थानमित्याह -

अत इति ।

सूत्रं व्याचष्टे -

यस्मादिति ।

विकल्पेऽपि तदपादानत्वोक्तिर्ब्रह्मणो घटिष्यते नेत्याह -

विकल्प्यमानेष्विति ।

नच नाडीपुरीततोरुत्थानापादानत्वं कदाचिदपि शिष्यते ब्रह्मण एव तु तद्वचने फलितमुपसंहरति -

तस्मादपीति ।

एवमात्मनो ब्रह्मात्मत्वं सिद्धमित्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् ॥ ८ ॥