ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
तस्याः पुनः सत्सम्पत्तेः प्रतिबुध्यमानः किं य एव सत्सम्पन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते । तत्र प्राप्तं तावत् — अनियम इति । कुतः ? यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति इति दुःसम्पादम् — तद्वत् सुप्तः परेणैकत्वमापन्नः सम्प्रसीदतीति न स एव पुनरुत्थातुमर्हति; तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥

अतः प्रबोधोऽस्मादिति स्वापानन्तरं ब्रह्मणः सकाशात्प्रबोधोक्तेस्तदात्मनैव सुप्तस्तिष्ठतीत्युक्तम् । इदानीं तस्मात्प्रबोधस्तदापत्तिं गमयति सुप्तादन्यस्य प्रबोधसम्भवेन तस्य नाड्यादिस्थानत्वसम्भवादित्याशङ्क्याह -

स एवेति ।

स्वापस्थानाद्ब्रह्मणः प्रतिबुध्यमानं जीवमधिकृत्योपाधिनाशात्कर्मानुस्मृत्यादिदर्शनाच्च संशयमाह -

तस्या इति ।

तस्यैवोत्थानोक्त्या स्वापातिरेकसाधनेन त्वमर्थशोधनात्तस्य ब्रह्मैक्ययोग्यतया वाक्यीयज्ञानोपयोगितेति पादादिसङ्गतिः ।

पूर्वपक्षे ज्ञानवैयर्थ्यं सिद्धान्ते तस्यैवोत्थानादज्ञातब्रह्मात्मना सुप्तस्यावस्थानात्तदैक्यज्ञानादेव मुक्तेस्तदर्थवत्त्वनियतिरित्यभिप्रेत्य नियामकानुपलब्ध्या पूर्वपक्षयति -

तत्रेति ।

नियमसम्भवे नानियमो युक्तिमानिति शङ्कते -

कुत इति ।

नियमायोगं दृष्टान्तेन साधयति -

यदेति ।

जलबिन्दोः सावयवत्वादवयवप्रसर्पणप्रणाडिकयैकत्वमापन्नस्य तस्यैव नोद्धरणम् । जीवस्य तु सोपाधित्वादुपाधेर्यावद्बन्धभावित्वादुद्धारसिद्धिरित्याशङ्क्योपाधिलयाभावे सत्सम्पत्त्यसिद्धेर्मैवमिति मत्वा दार्ष्टान्तिकमाह -

तद्वदिति ।

नियामकायोगे फलितमाह -

तस्मादिति ।

सम्भावनामात्रेणेश्वरो वेत्युक्तम् । अनियमपक्षे मोक्षः सुप्तस्येति ज्ञानवैयर्थ्यमिति वक्तुमितिशब्दः ।

पूर्वपक्षमनूद्य सिद्धान्तप्रतिज्ञामाह -

एवमिति ।

ऐक्यावस्थायामवच्छेदाभावे तस्यैवोत्थानं नियन्तुमशक्यमिति शङ्कते -

कस्मादिति ।

अवच्छेदकाविद्याशक्तिं सिद्धवत्कृत्य तस्यैवोत्थाने मानमाह -

कर्मेति ।

षड्यागानामिव समुच्चितानामिह न हेतुत्वं किन्तु प्रत्येकमित्याह -

विभज्येति ।

तत्र कर्मशब्दोक्तं हेतुं विशदयति -

कर्मेति ।

शेषानुष्ठानदर्शनमेव प्रकटयति -

तथाहीति ।

कथमेतावता तस्यैवोत्थानमित्याशङ्क्योक्तम् -

नचेति ।

सामिकृतस्यार्धमनुष्ठितस्येति यावत् ।

एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातादित्याह -

अतिप्रसङ्गादिति ।

उक्तहेतुफलमुपसंहरति -

तस्मादिति ।

अतः स एवोत्तिष्ठतीति शेषः ।

अनुस्मृतिं व्याकरोति -

इतश्चेति ।

का पुनरुक्तानुस्मृतेरन्योत्थानेऽनुपपत्तिः, तत्राह -

नहीति ।

अनुस्मृतिरित्यत्रानुशब्देन प्रत्यभिज्ञापि सूचितेत्याह -

सोऽहमिति ।

शब्दशब्दार्थमाह -

शब्देभ्यश्चेति ।

अयनं गमनमायः प्रतिनियतं गमनं प्रतिन्यायः स यथा भवति तथा योनिं योनिं प्रत्यागच्छति स्वापानन्तरं जागरायेत्यर्थः । सुप्तानामुत्थानयोग्यत्वमापन्नमेतं न विन्दन्तीति सूचितम् । इहेति पूर्वप्रबोधोक्तिः । तदाभवन्तीति स्वापव्यवहितं जागरितमुच्यते ।

विधिपदं व्याचष्टे -

कर्मेति ।

स एवोत्तिष्ठतीत्येतदेवमेवेत्युक्तम् । तदेव व्यतिरेकमुखेन विशदयति -

अन्यथेति ।

विद्यानर्थक्यं व्यनक्ति -

अन्येति ।

कर्मवैयर्थ्यमाह -

एवं चेदिति ।

सुप्तमात्रस्य मुक्त्युपगमश्चेदित्यर्थः । अनुष्ठानकाले फलाभावात्कर्मणो ध्यानस्य च कालान्तरफलस्यान्योत्थानपक्षे वैयर्थ्यमित्यर्थः । विद्यात्र ध्यानम् ।

इतश्च नान्योत्थानमित्याह -

अपिचेति ।

अन्योत्थाने सोऽन्यो जीवो वा स्यादीश्वरो वा, जीवश्चेद्बद्धो मुक्तो वा, बद्धोऽपि देहान्तरे व्यवहरमाणस्तत्र सुप्तो वेति विकल्प्याद्यमनूद्य प्रत्याह -

अन्येति ।

द्वितीयमनुभाष्य दूषयति -

अथेत्यादिना ।

विफलं गौरवमेव स्फोरयति -

यो हीति ।

कल्पान्तरमनूद्य निरस्यति -

अथेति ।

अन्तवत्त्वे का क्षतिः, तत्राह -

निवृत्तेति ।

हेत्वभावादिति भावः । मुक्तस्य नोत्थानमित्युक्तन्यायेन कल्पान्तरं निराह -

एतेनेति ।

तदीयस्वरूपापेक्षया हेतुमाह -

नित्येति ।

प्रत्येकं सर्वपक्षेषु दोषमुक्त्वा साधारणं दोषमाह -

अकृतेति ।

अन्योत्थाने पाश्चात्यप्रबोधकालीनसुखादेर्न पूर्वकर्मकार्यतेत्यकृतमागच्छेत्कृतं च सुप्तस्य मुक्तौ फलमदत्त्वैव नश्येदिति दोषद्वयमित्यर्थः ।

अन्योत्थानायोगे फलितमाह -

तस्मादिति ।

पूर्वपक्षबीजमनुवदति -

यदिति ।

दृष्टान्तवैषम्योक्त्या प्रत्याह -

तदित्यादिना ।

नास्माभिरेवान्यैरपि दुर्विवेचनत्वं तुल्यमित्याशङ्क्याह -

दृश्यते चेति ।

प्रकारान्तरेण दृष्टान्तवैषमाह -

अपिचेति ।

कस्तर्हि जीवः, तत्राह -

सदेवेति ।

सत एवोपाधिना जीवत्वे नानाजीववादोऽपि प्रत्युक्त इत्याह -

एवमिति ।

उक्तमेव व्यतिरेकद्वारोपपादयति -

उपाध्यन्तरेति ।

उपाधिभेदमुपेत्य तत्र तत्र जीवभेदो गम्यतामित्याशङ्क्य बीजाङ्कुरवद्व्यक्ताव्यक्तात्मनैकस्यैवोपाधेः स्थितेर्मैवमित्याह -

स एवेति ।

सुप्तस्यैवोत्थानादज्ञातब्रह्मणा तदवस्थानं सिद्धमित्युपसंहरति -

इत्यत इति ॥ ९ ॥