ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायाम् , उच्यते — तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः — जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृप्तिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति । तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा — इति ॥

अवस्थात्रयमुक्त्वा मूर्च्छाख्यमवस्थान्तरं दर्शयति -

मुग्ध इति ।

विषयमाह -

अस्तीति ।

प्राणाणिकस्य विषयत्वात्तस्य लोकसिद्धतामाह -

यमिति ।

स किं जागराद्यवस्थानामन्यतमावस्थान्तर्गतः किंवावस्थान्तरगत इत्यवस्थाचतुष्टयप्रसिद्धिनियमवैलक्षण्याभ्यां सन्देहे प्रत्यभिज्ञया स एवोत्तिष्ठतीत्युक्तेर्विशेषज्ञानाभावाविशेषेणैक्यप्रत्यभिज्ञानान्मुग्धिः सुप्तिरेवेति पूर्वपक्षयति -

स त्विति ।

अत्र मुग्धेरवस्थान्तरत्वोक्त्या ततो विभक्ते त्वमर्थे शोधिते तस्य वाक्यार्थान्वयिनस्तद्धीहेतुत्वात्पादादिसङ्गतिः । पूर्वपक्षे मूर्च्छातिरेकार्थं पृथङ् न प्रयतितव्यम् । सिद्धान्ते पृथक्प्रयत्नध्रौव्यमिति मत्वा पूर्वपक्षं विवृणोति -

तिस्रस्तावदिति ।

शरीरस्थस्येतिविशेषणसिद्धमवस्थान्तरमाह -

चतुर्थीति ।

मूर्च्छापि चिरोच्छ्वासवेपथुप्रभृतिधर्मभेदादवस्थान्तरमित्याशङ्क्य सुप्तेरेवावान्तरभेदादेवंविधत्वसिद्धेर्न धर्मिभेदकल्पनेत्याह -

न त्विति ।

अवस्थान्तरस्याप्रसिद्धत्वे सुषुप्त्यन्तर्भावं मूर्च्छाया मत्वा निगमयति -

तस्मादति ।

तथाच तद्व्यतिरेकार्थं पृथङ् न प्रयतितव्यमिति फलितमितिशब्दार्थः ।