अवस्थात्रयमुक्त्वा मूर्च्छाख्यमवस्थान्तरं दर्शयति -
मुग्ध इति ।
विषयमाह -
अस्तीति ।
प्राणाणिकस्य विषयत्वात्तस्य लोकसिद्धतामाह -
यमिति ।
स किं जागराद्यवस्थानामन्यतमावस्थान्तर्गतः किंवावस्थान्तरगत इत्यवस्थाचतुष्टयप्रसिद्धिनियमवैलक्षण्याभ्यां सन्देहे प्रत्यभिज्ञया स एवोत्तिष्ठतीत्युक्तेर्विशेषज्ञानाभावाविशेषेणैक्यप्रत्यभिज्ञानान्मुग्धिः सुप्तिरेवेति पूर्वपक्षयति -
स त्विति ।
अत्र मुग्धेरवस्थान्तरत्वोक्त्या ततो विभक्ते त्वमर्थे शोधिते तस्य वाक्यार्थान्वयिनस्तद्धीहेतुत्वात्पादादिसङ्गतिः । पूर्वपक्षे मूर्च्छातिरेकार्थं पृथङ् न प्रयतितव्यम् । सिद्धान्ते पृथक्प्रयत्नध्रौव्यमिति मत्वा पूर्वपक्षं विवृणोति -
तिस्रस्तावदिति ।
शरीरस्थस्येतिविशेषणसिद्धमवस्थान्तरमाह -
चतुर्थीति ।
मूर्च्छापि चिरोच्छ्वासवेपथुप्रभृतिधर्मभेदादवस्थान्तरमित्याशङ्क्य सुप्तेरेवावान्तरभेदादेवंविधत्वसिद्धेर्न धर्मिभेदकल्पनेत्याह -
न त्विति ।
अवस्थान्तरस्याप्रसिद्धत्वे सुषुप्त्यन्तर्भावं मूर्च्छाया मत्वा निगमयति -
तस्मादति ।
तथाच तद्व्यतिरेकार्थं पृथङ् न प्रयतितव्यमिति फलितमितिशब्दार्थः ।