पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
परिशेषादित्यस्यार्थं परिशेषं दर्शयितुमारभते -
न तावदिति ।
जाग्रदवस्थो हीन्द्रियैरर्थानुपलभते मुग्धो नैवमिति वैषम्यं हेतुमाह -
नहीति ।
जाग्रदवस्थस्यैव मुग्धस्यार्थानुपलम्भो दुःखानुभवव्यग्रतया स्यादिति दृष्टान्तेन शङ्कते -
स्यादिति ।
इषुकारन्यायं प्रपञ्चयति -
यथेत्यादिना ।
वैषम्योक्त्या प्रत्याह -
नेत्यादिना ।
मुग्धस्य जागरितावस्थत्वाभावे हेत्वन्तरमाह -
जाग्रतश्चेति ।
देहधारणाभावाद्विषयमात्रानुपलब्धेश्च मुग्धो जाग्रदवस्थो नेति निगमयति -
तस्मादिति ।
अस्तु तर्हि तस्य स्वप्नावस्थत्वं, नेत्याह -
नापीति ।
तर्हि तस्य मृतावस्थत्वं नेत्याह -
नापीति ।
पूर्ववत्प्राणोष्माणौ मुग्धे न सिद्धौ तत्कुतोऽस्य मृतादान्यत्वं तत्राह -
मुग्धे हीति ।
ऊष्मास्ति नेति संशय्यान्यरनिश्चयार्थं हृदयदेशमालभन्ते स्पृशन्तीति यावत् ।
प्राणोऽस्ति नेति च सन्दिह्यान्यतरार्थं नासिकादेशमालभन्त इति सम्बन्धः । नास्तित्वनिश्चयफलमाह -
यदीति ।
परस्य पराध्यवसायो गोचरो नेत्याशङ्क्य कार्यलिङ्गकमनुमानमाह -
दहनायेति ।
अस्तित्वनिश्चयफलमाह -
अथ त्विति ।
तत्रापि कार्यलिङ्गकमनुमानमाह -
संज्ञेति ।
मुग्धस्य मृतत्वाभावे हेत्वन्तरमाह -
पुनरिति ।
यमराजं प्रविष्टस्यापि पुनरुत्थानं किं न स्यात् , तत्राह -
नहीति ।
परिशेषसिद्धं मुग्धस्य स्वापावस्थत्वमित्याह -
अस्त्विति ।
तत्र सालक्षण्यं हेतुमाह -
निःसंज्ञत्वादिति ।
उक्तसालक्षण्येऽपि लक्षणनिमित्तफलानां भेदान्नैक्यमित्याह -
नेत्यादिना ।
लक्षणं लक्षणभेदं विवृणोति -
मुग्ध इति ।
निमित्तभेदमुदाहरति -
निमित्तेति ।
आदिपदेनोभयत्रापि ज्वरादि गृह्यते श्रमापनयार्था ब्रह्मसम्पत्तिः सुषुप्तिः, देहत्यागार्था तत्सम्पत्तिर्मोहः, सति मोहे मरणाभावेऽपि तस्मिन्नसति तदभावादिति फलभेदं मत्वा मोहस्वापयोरैक्ये मानाभावमाह -
नचेति ।
परिशेषायातमर्थमाह -
परीति ।
साम्यवैलक्षण्याभ्यामर्धसम्पत्तिं साधयति -
निःसंज्ञत्वादिति ।