स्वप्नाद्यवस्थोक्त्या तद्व्यतिरिक्तं स्वप्रकाशं ब्रह्मात्मकं सदैकरूपं त्वमर्थमुद्धेश्यं परिशोध्येदानीं विधेयतदर्थशोधनमारभमाणस्तस्य तावन्निर्विशेषत्वमाह -
नेत्यादिना ।
सङ्गतिमाह -
येनेति ।
ब्रह्मस्वरूपस्यासकृदुक्तत्वात्किमनेनारम्भेणेत्याशङ्क्य श्रुतिषु दृष्टविवादनिरासेन तन्निर्णयार्थमित्याह -
श्रुतीति ।
विषयोक्तिपूर्वकं संशयबीजमाह -
सन्तीति ।
सविशेषत्वं निर्विशेषत्वं चोभयं लिङ्ग्यते प्रकाश्यते याभिः श्रुतिभिस्तास्तथा । तत्र सविशेष ब्रह्मश्रुतीरुदाहरति -
सर्वेति ।
चकारेणोक्तार्थाः श्रुतयोऽन्या यः सर्वज्ञः स सर्वविदित्याद्याः समुच्चिताः । सविशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथा ।
निर्विशेषब्रह्मश्रुतीरुदाहरति -
अस्थूलमिति ।
यत्तदद्रेश्यमदृश्येऽनात्म्ये नेति नेत्याद्याः श्रुतयश्चकारेण गृह्यन्ते । निर्विशेषं ब्रह्म लिङ्ग्यते याभिस्ताः श्रुतयस्तथेति ।
पूर्ववत्सविषयं संशयबीजमुक्त्वा संशयमाह -
किमिति ।
उभयं सविशेषत्वं निर्विशेषत्वं च लिङ्ग्यते यस्मिन्ब्रह्मणि तत्तथेति यावत् । उभयत्र श्रुत्यनुग्रहादेकत्रोभयोर्विरोधान्नाद्यो विकल्पः । सविशेषत्वं निर्विशेषत्वं वान्यतरद्यत्र लिङ्ग्यते तद्ब्रह्म तथेत्येतत् ।
परस्य परिणामित्वकूटस्थत्वाभ्यां द्वितीयं विकल्पयति -
यदेति ।
अत्र निर्विशेषस्य तदर्थस्य ब्रह्मणो निरूपणे तस्य वाक्यार्थान्वयितया तद्धीहेतुत्वलाभात्पादादिसङ्गतिः ।
पूर्वपक्षे द्विरूपं ब्रह्म ध्येयं सिद्धान्ते तु निर्विशेषमेव तज्ज्ञेयमित्यभिप्रेत्य पूर्वपक्षयति -
तत्रेति ।
उभयविधत्वं विकृताविकृतब्रह्मापेक्षया वा स्थितिप्रलयकालभेदेन वा कार्यकारणब्रह्मभेदेन वा कारणाकारणब्रह्मभेदेन वा न व्यवस्थापयितुं शक्यं ब्रह्मद्वयाभावात् ।
तत्कथमेकस्य विरुद्धोभयरूपतेत्याशङ्क्याह -
उभयेति ।
नच निर्विशेषब्रह्मप्रकरणस्थशब्दानां निषेध्यार्पणेन निषेधवाक्यैकवाक्यतया सप्रपञ्चातात्पर्यान्न सविशेषधीरिति वाच्यम् । उपास्तिप्रकरणस्थसप्रपञ्चवाक्यान्तरैः स्वशेषिविधिविरोधशून्यतया स्वार्थे प्रमाणैः सप्रपञ्चतासिद्धेर्निषेधवाक्यविरोधेऽपि तेषां स्वशेषिवाक्याविरुद्धत्वात्प्रामाण्योपपत्तेरिति भावः ।
उभयरूपं ब्रह्म ध्येयमिति पूर्वपक्षमनूद्य सिद्धान्तसूत्रमादत्ते -
एवमिति ।
उभयलिङ्गत्वं ब्रह्मणः स्वाभाविकमाहो परोपाधिकम् ।
आद्यं प्रत्याह -
न तावदिति ।
अनुपपत्तिं स्फुटयति -
नहीति ।
द्वितीयं शङ्कते -
अस्त्विति ।
स्थानत इति व्याचष्टे -
पृथिव्यादीति ।
स्थानमुपाधिस्तद्योगादिति यावत् । औपाधिकत्वेऽपि सत्यत्वमग्निसम्पर्कजन्यलौहित्यवदिति भावः ।
उपाधिवशादाविद्योभयलिङ्गत्वयोगेऽपि न तात्त्विकमुभयलिङ्गत्वं कूटस्थस्य ब्रह्मणो वास्तवरूपान्तरायोगादित्याह -
तदपीति ।
उक्तमेव दृष्टान्तेन स्पष्ठयति -
नहीति ।
आलक्तकाद्युपाधिघटिते स्फटिकादावस्वच्छताधीस्तर्हि कथं, तत्राह -
भ्रमेति ।
स्वरसधवलस्य स्फटिकादेरुपाधितो दृष्टोरुणिमा न वास्तवः संयुक्तोपाधेरेवारुणतया भानादित्यर्थः ।
उपाधेरमिथ्यात्वेऽपि तत्कृतं मिथ्येत्युक्तम् । इदानीं तस्यापि मिथ्यात्वात्तन्मिथ्येति किं वक्तव्यमित्याह -
उपाधीनामिति ।
उभयरूपत्वं तत्त्वतो ब्रह्मणो न चेत्तर्हि सविशेषत्वमेव नानाश्रुतिवशादिष्यतामित्याशङ्क्याह -
अतश्चेति ।
सर्वस्य विशेषस्याविद्याकृतत्वादेवेति यावत् ।
तत्र हेतुत्वेन सूत्रावयवं व्याचष्टे -
सर्वत्रेति ॥ ११ ॥