ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
अथापि स्यात् — यदुक्तम् , निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति, तन्नोपपद्यते । कस्मात् ? भेदात् । भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते, चतुष्पात् ब्रह्म, षोडशकलं ब्रह्म, वामनीत्वादिलक्षणं ब्रह्म, त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्म, इत्येवंजातीयकाः । तस्मात् सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यम् । ननु उक्तं नोभयलिङ्गत्वं ब्रह्मणः सम्भवतीति; अयमप्यविरोधः, उपाधिकृतत्वादाकारभेदस्य । अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत — इति चेत् , नेति ब्रूमः । कस्मात् ? प्रत्येकमतद्वचनात् । प्रत्युपाधिभेदं हि अभेदमेव ब्रह्मणः श्रावयति शास्त्रम् — ‘यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा’ (बृ. उ. २ । ५ । १) इत्यादि । अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् , भेदस्य उपासनार्थत्वात् , अभेदे तात्पर्यात् ॥ १२ ॥

न स्थानतोऽपीत्यादिनोक्तमाक्षिप्य समाधत्ते -

नेत्यादिना ।

निषेध्यमनूद्य निषेद्धुं नञर्थमाह -

अथापीति ।

श्रुतिभिर्ब्रह्मणो निर्विशेषत्वे मितेऽपीति यावत् ।

श्रौतस्य नासिद्धिरिति शङ्कते -

कस्मादिति ।

श्रुत्यन्तरविरोधात्तदसिद्धिरिति सूत्रावयवेनाह -

भेदादिति ।

तदेव विभजते -

भिन्ना हीति ।

तादृगारोपदेशस्य फलमाह -

तस्मादिति ।

निर्विशेषत्ववदित्यपेरर्थः ।

उक्तविरोधं स्मारयति -

नन्विति ।

औपाधिकमाकारभेदमादाय प्रत्याह -

अयमपीति ।

उभयरूपत्वस्वीकारेण विरोधसमाधिवदित्यपेरर्थः ।

आकारभेदो नोपाधितोऽपीत्युक्तमित्याशङ्क्याह -

अन्यथेति ।

रूपभेदवादिशास्त्रप्रामाण्यार्थमौपाधिकस्तद्भेदो वक्तव्य इत्यर्थः ।

किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते किं वोपाधिसंनिधेस्तत्त्वत एव ब्रह्मणोऽपि भेदो जायते । प्रथमे ब्रह्मणो नोभयरूपतेत्यभिप्रेत्याह -

नेतीति ।

आकाङ्क्षापूर्वकं हेतुमवतार्य व्याकुर्वन्द्वितीये श्रुत्यन्तरविरोधमाह -

कस्मादित्यादिना ।

कल्पद्वयफलमाह -

अतश्चेति ॥ १२ ॥