ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
रूपाद्याकाररहितमेव ब्रह्म अवधारयितव्यम् , न रूपादिमत् । कस्मात् ? तत्प्रधानत्वात्; ‘अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) ‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५), (मुक्ति. उ. २ । ७२), ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म’ (छा. उ. ८ । १४ । १) ‘दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इत्येवमादीनि वाक्यानि, निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि, न अर्थान्तरप्रधानानि — इत्येतत्प्रतिष्ठापितम् ‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४) इत्यत्र । तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्म अवधारयितव्यम् । इतराणि तु आकारवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि । उपासनाविधिप्रधानानि हि तानि । तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् । सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति — इत्येष विनिगमनायां हेतुः, येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतमिति ॥ १४ ॥

तत्र प्रतिज्ञां विभजते -

रूपादीति ।

प्रश्नद्वारा नियामकमुक्त्वा विवृणोति -

कस्मादित्यादिना ।

एतेषामपि तत्प्रधानत्वमुपास्तिविधिशेषत्वादसिद्धमित्याशङ्क्याह -

इत्येतदिति ।

समन्वयाधिकरणमुपजीव्य फलितमाह -

तस्मादिति ।

सप्रपञ्चवाक्यानामपि तुल्यं तत्प्रधानत्वमित्याशङ्क्याह -

इतराणीति ।

तेषां वस्तुपरत्वाभावे हेतुमाह -

उपासनेति ।

तेषामपि स्वशेष्यविरोधादुक्ता स्वार्थे मानतेत्याशङ्क्य पर्णमयीवाक्यवन्मानान्तरविरोधान्मैवमित्याह -

तेष्विति ।

विरोधस्य तुल्यत्वात्कुतो निर्धारणेत्याशङ्क्याह -

सतीति ।

उक्तहेतुकृतां विनिगमनामेवाभिनयति -

येनेति ॥ १४ ॥