ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसम्बन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते । तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । एवम् अवैयर्थ्यम् आकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् । नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातम् — नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते; नेति ब्रूमः — उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः । उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम ॥ १५ ॥

सूत्रान्तरं प्रश्नपूर्वकमवतारयति -

का तर्हीति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

चकारार्थं दार्ष्टान्तिकमाह -

एवमिति ।

किमर्थो ब्रह्मणो निराकारस्याकारोपदेशः, तत्राह -

तदिति ।

अवैयर्थ्यादित्यत्र प्रातिपदिकार्थमाह -

एवमिति ।

निष्प्रपञ्चवाक्यविरोधाद्वैयर्थ्यमेव तेषां किं न स्यादित्याशङ्क्य प्रत्ययार्थमाह -

नहीति ।

पूर्वापरविरोधं शङ्कते -

नन्विति ।

एवमपीत्युक्तरीत्या श्रुतीनां व्यवस्थितत्वेऽपीत्यर्थः ।

औपाधिकमुभयलिङ्गत्वं वास्तवमुपेत्य विरोधः साध्यते किंवाऽविद्याकृतमिति विकल्प्याद्यं निराह -

नेतीति ।

वस्तुधर्मत्वानुपपत्तेः वस्तुनो धर्मः सत्यत्वं तद्वत्तासिद्धेरिति यावत् ।

इतश्च नोपाधिकृतनानात्वस्य सत्यतेत्याह -

उपाधीनां चेति ।

न तेषामाविद्यत्वं शास्त्रतस्तद्धियं विना तद्विशिष्टोपास्त्ययोगादित्याशङ्क्य तत्त्वावेदकमानाद्ब्रह्मज्ञाने तदज्ञानध्वस्तेरुपास्त्यादिव्यवहारस्यापि निरवकाशत्वादुपाधीनां व्यावहारिकसत्त्वेऽपि न तात्त्विकतेत्याह -

सत्यामिति ।

आविद्यकं तु नानात्वं न विरोधहेतुस्तस्य पूर्वमपि सर्वव्यवहारहेतोरुपगतेरिति मत्वाह -

तत्र तत्रेति ॥ १५ ॥