ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
आह च तन्मात्रम् ॥ १६ ॥
आह च श्रुतिः चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म — ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इति । एतदुक्तं भवति — नास्य आत्मनोऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति, चैतन्यमेव तु निरन्तरमस्य स्वरूपम् — यथा सैन्धवघनस्यान्तर्बहिश्च लवणरस एव निरन्तरो भवति, न रसान्तरम् , तथैवेति ॥ १६ ॥

कीदृशं तर्हि निर्विशेषं ब्रह्म, तत्रोक्तम् -

आहेति ।

तद्विभजते -

आह चेति ।

मात्रचोऽर्थमाह -

विलक्षणेति ।

कासौ श्रुतिस्तामाह -

स यथेति ।

एकरसे चिन्मात्रे स दृष्टान्तो यथा येन प्रकारेण लोके सैन्धवस्य घनो मूर्तिविशेषः खिल्यभावोऽन्तर्बहिर्भेदशून्यः सर्वो लवणैकरसस्तथैवायमात्माऽन्तर्बहिर्विभागरहितः समस्तोऽपि प्रकृष्टज्ञप्त्यैकतानस्तिष्ठतीत्यर्थः ।

सविशेषस्यैव सैन्धवघनस्य दृष्टान्तितत्वाद्दार्ष्टान्तिकस्यापि ब्रह्मणः सविशेषत्वं दृष्टान्तदार्ष्टान्तिकयोरैकरूप्यादित्याशङ्क्याह -

एतदिति ॥ १६ ॥

अन्यापोहमुखेन बोध्यमानत्वादपि स्वगतविशेषशून्यं ब्रह्म ।