विशेषवत्त्वे तदुक्त्यापि प्रतिपादनसिद्धावितरव्यावृत्तिवैयर्थ्यादित्याह -
दर्शयतीति ।
सूत्रं व्याचष्टे -
दर्शयतीत्यादिना ।
अन्यनिषेधेनैव ब्रह्मोक्तौ स्वगतविशेषाभावे हेतुमाह -
निर्विशेषत्वादिति ।
रूपद्वयव्याख्यानन्तर्यमथशब्दार्थः । तस्य ब्रह्मधीहेतुत्वमतःशब्दार्थः । विदितं कार्यमविदितं कारणम् । अथो इति निपातोऽप्यर्थः । अधीत्युपरिष्टादन्यदित्यर्थः । तमानन्दं ब्रह्मस्वभावं विद्वान्न कुतश्चन विभेतीति शेषः ।
तत्रैव श्रुत्यन्तरमाह -
बाष्कलिनेति ।
स तु प्रश्ने कृते बाध्यस्य तूष्णीम्भावे भावमविद्वान्भूयो भूयः पप्रच्छ तं पुनरतिनिर्बन्धकारिणं बाध्वो द्वितीये तृतीये वा प्रश्ने प्रत्युक्तवानित्याह -
तं हेति ।
उक्तं चेदुत्तरं किमिति न मया ज्ञातं, तत्राह -
त्वं त्विति ।
कथं तूष्णीम्भाव एवोत्तरं, तत्राह -
उपशान्त इति ।
अथो इत्यादि व्याचष्टे -
तथेति ।
सूत्रगताथोशब्दस्तथेत्यर्थे ज्ञेयः ।
उक्तिफलमाह -
यदिति ।
ज्ञेयमेव विशिनष्टि -
अनादिमदिति ।
आदिरस्यास्तीत्यादिमत्कार्यं तदस्य नास्तीत्यनादिमत्कार्यरहितमित्यर्थः ।
स्वयं च न कार्यमित्याह -
न सदिति ।
नच तत्कारणमित्युक्तम् -
नासदिति ।
तथा वास्तवनिर्विशेषत्ववशेनेति यावत् । सर्वेषां भूतानां पृथिव्यादीनां गुणा गन्धादयः सर्वप्राणभृतां वा गुणा जनकत्वपालकत्वादयस्तैर्युक्तं मां पश्यसीति यदेतदेषा माया मया सृष्टेति योजना ।
कस्मादेषा मायेत्युक्ते निर्विशेषश्रुतिमाश्रित्याह -
नैवमिति ॥ १७ ॥