ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म — निर्विशेषत्वात् — ‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) इत्येवमाद्या । बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते — ‘स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि । उपशान्तोऽयमात्मा’ इति । तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते — ‘ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते — ‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।’ (म. भा. १२ । ३३९ । ४५) ‘सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि’ (म. भा. १२ । ३३९ । ४६) इति ॥ १७ ॥

विशेषवत्त्वे तदुक्त्यापि प्रतिपादनसिद्धावितरव्यावृत्तिवैयर्थ्यादित्याह -

दर्शयतीति ।

सूत्रं व्याचष्टे -

दर्शयतीत्यादिना ।

अन्यनिषेधेनैव ब्रह्मोक्तौ स्वगतविशेषाभावे हेतुमाह -

निर्विशेषत्वादिति ।

रूपद्वयव्याख्यानन्तर्यमथशब्दार्थः । तस्य ब्रह्मधीहेतुत्वमतःशब्दार्थः । विदितं कार्यमविदितं कारणम् । अथो इति निपातोऽप्यर्थः । अधीत्युपरिष्टादन्यदित्यर्थः । तमानन्दं ब्रह्मस्वभावं विद्वान्न कुतश्चन विभेतीति शेषः ।

तत्रैव श्रुत्यन्तरमाह -

बाष्कलिनेति ।

स तु प्रश्ने कृते बाध्यस्य तूष्णीम्भावे भावमविद्वान्भूयो भूयः पप्रच्छ तं पुनरतिनिर्बन्धकारिणं बाध्वो द्वितीये तृतीये वा प्रश्ने प्रत्युक्तवानित्याह -

तं हेति ।

उक्तं चेदुत्तरं किमिति न मया ज्ञातं, तत्राह -

त्वं त्विति ।

कथं तूष्णीम्भाव एवोत्तरं, तत्राह -

उपशान्त इति ।

अथो इत्यादि व्याचष्टे -

तथेति ।

सूत्रगताथोशब्दस्तथेत्यर्थे ज्ञेयः ।

उक्तिफलमाह -

यदिति ।

ज्ञेयमेव विशिनष्टि -

अनादिमदिति ।

आदिरस्यास्तीत्यादिमत्कार्यं तदस्य नास्तीत्यनादिमत्कार्यरहितमित्यर्थः ।

स्वयं च न कार्यमित्याह -

न सदिति ।

नच तत्कारणमित्युक्तम् -

नासदिति ।

तथा वास्तवनिर्विशेषत्ववशेनेति यावत् । सर्वेषां भूतानां पृथिव्यादीनां गुणा गन्धादयः सर्वप्राणभृतां वा गुणा जनकत्वपालकत्वादयस्तैर्युक्तं मां पश्यसीति यदेतदेषा माया मया सृष्टेति योजना ।

कस्मादेषा मायेत्युक्ते निर्विशेषश्रुतिमाश्रित्याह -

नैवमिति ॥ १७ ॥