ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यः, अत एव च अस्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु — ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा’ इति, ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्’ (ब्र. बिं. १२) इति चैवमादिषु ॥ १८ ॥

विशिष्टदृष्टान्तोक्तिरपि निर्विशेषत्वमस्य गमयतीत्याह -

अत इति ।

सूत्राक्षराणि व्याचष्टे -

यत इति ।

पूर्वोक्तसर्वरूपाण्युपादाय विशेषाणामुपाधिनिमित्तत्वे विशेषवत्तायाः सत्यत्वं शङ्कित्वोक्तमपारमार्थिकीमिति । जलसूर्यकादिवदिति कप्रत्ययो बिम्बाद्भेदेन प्रतिबिम्बस्याभासत्वधिया प्रयुक्तः ।

तान्येव मोक्षशास्त्राणि सङ्क्षिप्याह -

यथेति ।

अयं हि विवस्वाञ्ज्योतिःस्वभावः स्वयमेकोऽपि तत्तत्पात्रगता भिन्ना अपोऽनुगच्छन्बहुधा क्रियते । एवमयमात्मा तत्तत्क्षेत्रेष्वनुगच्छन्कूटस्थस्वप्रकाशचिद्धातुरेकोऽपि सन्नुपाधिना भेदरूपः क्रियत इति योजना ।

आदिशब्दोपात्तं जलचन्द्रकोपमानं दर्शयति -

एक एवेति ॥ १८ ॥