ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
युक्त एव तु अयं दृष्टान्तः, विवक्षितांशसम्भवात् । न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित् कञ्चित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते । सर्वसारूप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् । न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम् । शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते । किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते — वृद्धिह्रासभाक्त्वमिति । जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति, जलभेदे भिद्यते — इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति । एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावात् भजत इवोपाधिधर्मान्वृद्धिह्रासादीन् । एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः ॥ २० ॥

दृष्टान्तदार्ष्टान्तिकयोर्विवक्षितांशेन वा सर्वात्मना वा साम्यं तत्राद्यमङ्गीकरोति -

युक्त इति ।

द्वितीयं निराह -

नहीति ।

उपाधेर्भिन्नत्वं भिन्नदेशत्वं च दृष्टान्ते दृष्टमिह तदभावाद्रूपशून्यत्वाच्च ब्रह्मणो न प्रतिबिम्बं कल्प्यमित्याशङ्क्याह -

नचेति ।

शास्त्रीये दृष्टान्ते किं सूत्रेणेत्याशङ्क्याह -

शास्त्रेति ।

प्रयोजनमात्मनो निर्विशेषत्वज्ञानम् ।

विवक्षितांशेन साम्येऽपि सर्वात्मना साम्यमतिप्रसङ्गीत्युक्तमिदानीमाकाङ्क्षापूर्वकं सूत्रमादाय विभजते -

किमित्यादिना ।

वृद्धिह्रासेत्यादि व्याख्यायावशिष्टं व्याचष्टे -

एवमिति ।

अविरोधस्तद्भावस्येति शेषः ॥ २० ॥