ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ २१ ॥
दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम् — ‘पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्’ (बृ. उ. २ । ५ । १८) इति; ‘अनेन जीवेनात्मनानुप्रविश्य’ (छा. उ. ६ । ३ । २) इति च । तस्माद्युक्तमेतत् ‘अत एव चोपमा सूर्यकादिवत्’ (ब्र. सू. ३ । २ । १८) इति । तस्मात् निर्विकल्पकैकलिङ्गमेव ब्रह्म, न उभयलिङ्गं विपरीतलिङ्गं वा इति सिद्धम् ॥

ब्रह्म न प्रतिबिम्बभावं गन्तुमलममूर्तत्वाद्गन्धवदित्यत्राप्रयोजकत्वमुक्त्वा दोषान्तरमागमविरोधमाह -

दर्शनाच्चेति ।

सूत्रं विवृणोति -

दर्शयतीति ।

द्विपदोपलक्षितानि मनुष्यादिशरीराणि । चतुष्पदोपलक्षितानि च पश्वादिशरीराणि । पुरश्चक्रे पुरुश्चक्षुराद्यभिव्यक्तेः पुरस्तादेव स स्रष्टेश्वरः पक्षी लिङ्गशरीरी भूत्वा पुरस्तान्येव सृष्टानि शरीराण्याविशत्प्रविष्टवान् । स च वस्तुवृत्त्या पुरुषः पूर्णस्तदतिरिक्तवस्त्वभावादित्यर्थः ।

प्रतिबिम्बपक्षस्य श्रुतिमूलत्वे फलितमाह -

तस्मादिति ।

स्वसिद्धान्तमुपसंहरति -

तस्मान्निर्विकल्पेति ।