ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ २१ ॥
अत्र केचित् द्वे अधिकरणे कल्पयन्ति — प्रथमं तावत् किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्म, उत प्रपञ्चवदनेकाकारोपेतमिति । द्वितीयं तु स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उत उभयलक्षणमिति । अत्र वयं वदामः — सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति । यदि तावदनेकलिङ्गत्वं परस्य ब्रह्मणो निराकर्तव्यमित्ययं प्रयासः, तत् पूर्वेणैव ‘न स्थानतोऽपि’ इत्यनेनाधिकरणेन निराकृतमिति, उत्तरमधिकरणम् ‘प्रकाशवच्च’ इत्येतद्व्यर्थमेव भवेत् । न च सल्लक्षणमेव ब्रह्म न बोधलक्षणम् — इति शक्यं वक्तुम् , ‘विज्ञानघन एव’ इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत । नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणम् — इति शक्यं वक्तुम् , ‘अस्तीत्येवोपलब्धव्यः’ (क. उ. २ । ३ । १३) इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्येत । नाप्युभयलक्षणमेव ब्रह्म — इति शक्यं वक्तुम् , पूर्वाभ्युपगमविरोधप्रसङ्गात् । सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत । श्रुतत्वाददोष इति चेत् , न, एकस्य अनेकस्वभावत्वानुपपत्तेः । अथ सत्तैव बोधः, बोध एव च सत्ता, नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत, तथापि किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उतोभयलक्षणम् — इत्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि । अपि च ब्रह्मविषयासु श्रुतिषु आकारवदनाकारप्रतिपादनेन विप्रतिपन्नासु, अनाकारे ब्रह्मणि परिगृहीते, अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः । तादर्थ्येन ‘प्रकाशवच्च’ इत्यादीनि सूत्राण्यर्थवत्तराणि सम्पद्यन्ते ॥

स्वमतेनाधिकरणमुक्त्वा स्वयूथ्यमतमुत्थापयति -

अत्रेति ।

व्याख्यातेषु सूत्रेष्विति यावत् ।

न स्थानतोऽपीत्यादि प्रकाशवच्चेत्यतः प्रागेकमधिकरणं तद्गतं विचारं दर्शयति -

प्रथममिति ।

प्रकाशवच्चेत्यादि द्वितीयमधिकरणं तत्रत्यं विचारमाह -

द्वितीयं त्विति ।

तत्र पूर्वपक्षसूत्रं प्रकाशवच्चेति । न केवलं सद्रूपमेव ब्रह्म किन्तु चैतन्यप्रकाशवच्च ‘सत्यं ज्ञानं’ ‘सदेव’ इत्युभयश्रुतेः । एवं सत्यवैयर्थ्यात्सिद्धान्तसूत्रमाह चेति । सत्त्वं चैतन्यप्रकाशमात्रं सदेव विज्ञानमानन्दमित्याद्या श्रुतिराह तन्न ब्रह्मणो नानारसत्वाशङ्केत्यर्थः ।

द्वितीयमधिकरणं दूषयति -

अत्रेति ।

सर्वथापि फलस्य सन्देहस्य च भावेऽपीत्यर्थः ।

कथं फलस्य भावे वैयर्थ्यमित्याशङ्क्य तत्किमनेकरूपत्वनिराकरणं किंवा सन्मात्रत्वसाधनमथवा बोधमात्रत्वबोधनमिति विकल्प्याद्यं दूषयति -

यदिति ।

द्वितीयं निरस्यति -

नचेति ।

न केवलं श्रुतिविरोधोऽपि तु श्रुतार्थापत्तिविरोधश्चेत्याह -

कथं वेति ।

एतेन पूर्वपक्षासिद्धिरुक्ता ।

तृतीयं प्रत्याह -

नापीति ।

श्रुतिविरोधवद्युक्तिविरोधश्चास्तीत्याह -

कथमिति ।

सतो व्यावृत्तस्य तुच्छत्वादित्यर्थः । एतेन सिद्धान्तासिद्धिरुक्ता ।

पूर्वपक्षान्तरमपि परस्यायुक्तं पूर्वाधिकरणविरोधादित्याह -

नापीति ।

प्रसङ्गमेव प्रपञ्चयति -

सत्तेति ।

तद्व्यावृत्तत्वं तद्विशेषितत्वम् ।

श्रुत्यवष्टम्मेन पूर्वपक्षसिद्धिं शङ्कते -

श्रुतत्वादिति ।

विरुद्धमर्थं श्रुतिरपि न वदेदतो न तदवष्टम्भादुभयात्मता शङ्कनीयेत्याह -

नैकस्येति ।

विरोधं परिहर्तुं वाक्यार्थस्याखण्डतां चोदयति -

अथेति ।

वाक्यार्थाखण्डत्वमुपेत्य परस्य संशयानुपपत्तिमाह -

तथापीति ।

एकाधिकरणत्वे सूत्राणामसाङ्गत्याद्भिन्नाधिकरणत्वमाशङ्क्याह -

सूत्राणीति ।

इतश्च नाधिकरणभेदोऽस्तीत्याह -

अपिचेति ।

पूर्वाधिकरणापेक्षितहेत्वन्तरवादित्वेनोत्तरसूत्राणां तच्छेषत्वसिद्धेर्न भेदकल्पनेति हेत्वन्तरमेव स्फुटयति -

ब्रह्मेति ।