ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ २१ ॥
यदप्याहुः — आकारवादिन्योऽपि श्रुतयः प्रपञ्चप्रविलयमुखेन अनाकारप्रतिपत्त्यर्था एव, न पृथगर्था इति, तदपि न समीचीनमिव लक्ष्यते । कथम् ? ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते, यथा — ‘युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च’ (बृ. उ. २ । ५ । १९) इत्येवमादयः — ते भवन्ति प्रविलयार्थाः; ‘तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्’ (बृ. उ. २ । ५ । १९) इत्युपसंहारात् । ये पुनरुपासनाधिकारे प्रपञ्चा उच्यन्ते, यथा — ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्येवमादयः — न तेषां प्रविलयार्थत्वं न्याय्यम्; ‘स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) इत्येवंजातीयकेन प्रकृतेनैव उपासनविधिना तेषां सम्बन्धात् । श्रुत्या च एवंजातीयकानां गुणानामुपासनार्थत्वेऽवकल्पमाने न लक्षणया प्रविलयार्थत्वमवकल्पते । सर्वेषां च साधारणे प्रविलयार्थत्वे सति ‘अरूपवदेव हि तत्प्रधानत्वात्’ (ब्र. सू. ३ । २ । १४) इति विनिगमनकारणवचनम् अनवकाशं स्यात् । फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः, क्वचिदैश्वर्यप्राप्तिः, क्वचित्क्रममुक्तिरित्यवगम्यत एव — इत्यतः पार्थगर्थ्यमेव उपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यम् , न एकवाक्यत्वम् ॥

आकारवद्ब्रह्मवादिश्रुतीनां प्रकारान्तरेण गतिरिति मतमनुवदति -

यदपीति ।

प्रपञ्चप्रविलयपक्षं दूषयति -

तदपीति ।

सर्वश्रुतीनामेकवाक्यत्वसम्भवे किमिति तदसमीचीनतेति पृच्छति -

कथमिति ।

परविद्याप्रकरणस्थानामाकारवद्ब्रह्मबादिश्रुतीनामेकवाक्यत्वं किं वोपास्तिप्रकरणस्थानामथ वा सर्वासां, तत्राद्यमङ्गीकरोति -

ये हीति ।

यथा रथे वाजिनो युज्यन्ते तथास्यत्मनः संयुक्ताः स्वविषयप्रकाशनाय हरयो हरणादिन्द्रियाणि दश प्राणिभेदापेक्षया च शताः शतानीत्युपक्रम्यात्मनश्चेन्द्रियाणां च भेदं शङ्कित्वोक्तम् -

अयमित्यादि ।

तेषां प्रविलयद्वारा ब्रह्मवाक्येनैकवाक्यत्वे हेतुमाह -

तदेतदिति ।

द्वितीयं दूषयति -

ये पुनरिति ।

तेषां लयार्थत्वेन ब्रह्मवाक्यैकवाक्यत्वाभावे हेतुमाह -

स क्रतुमिति ।

किञ्च मनोमयादिवाक्यान्न साक्षाल्लयो भाति किन्तु लक्षयितव्यः ।

नच श्रुतित्यागेन लक्षणा श्रुतेर्बलीयस्त्वादित्याह -

श्रुत्या चेति ।

तृतीयं प्रत्याह -

सर्वेषां चेति ।

यदि हि काश्चिदपि श्रुतयो नाकारवादितयोपासनापराः स्युस्तदा सर्वासां लयार्थत्वेन निरूपणाद्ब्रह्मप्रधानत्वाविशेषादेता ध्यानविधिप्रधाना निष्प्रपञ्चप्रधानास्त्वेता इति विनिगमनं न स्यात्तथाच सूत्रं विरुध्येतेत्यर्थः ।

निष्प्रपञ्चवाक्येष्वेव फलश्रवणात् ‘फलवत्संनिधावफलं तदङ्गम्’ इति न्यायात्सप्रपञ्चवाक्यानां तदेकवाक्यतेत्याशङ्क्याह -

फलमिति ।

उपास्तिफलेन फलवत्त्वादुक्तन्यायाविषयत्वमाकारवद्वाक्यानामिति स्थिते फलितमाह -

इत्यत इति ।