एकवाक्यताहेत्वदृष्टेरपि नैकवाक्यतेत्याह -
कथं चेति ।
हेतुत्वानुपलब्धिरसिद्धेति शङ्कते -
एकेति ।
यद्यपि प्रयाजदर्शपूर्णमासवाक्ययोर्विषयानुबन्धभेदान्नियोगभेदस्तथाप्येकाधिकारनियोग इत्येकनियोगत्वम् । तथा तत्त्वावबोधकामस्यैको नियोगः सर्वत्रेत्येकवाक्यतेत्यर्थः ।
तत्त्वमादिवाक्येषु नियोगाभावादेकनियोगधीरसिद्धेति दूषयति -
नेति ।
तेष्वपि कल्प्यतां नियोगोऽन्यथा प्रामाण्यायोगादित्याशङ्क्याह -
वस्त्विति ।
विषयाभावाच्च न नियोगोऽत्रेत्याह -
किमिति ।
नियोज्यावच्छिन्नो नियोगस्तस्य किं विषयेणेत्याशङ्क्याह -
पुरुषो हीति ।
विषयोऽपि तर्हि नियोगावच्छेदकत्वेन कश्चित्कल्प्यतामित्याशङ्क्य द्वैतलयो वा स स्याद्ब्रह्मज्ञानं वा तदविद्यानिवृत्तिर्वा तत्कार्यनिवृत्तिर्वेति विकल्प्याद्यमादत्ते -
नन्विति ।
तत्त्वावबोधकामिनस्तत्त्वावबोधफलके विषये तदुपकारके वा नियोगो युक्तस्तस्मात्कथं प्रपञ्चलये स्यादित्याशङ्क्य तदुपकारकत्वादित्याह -
अप्रविलापिते हीति ।
काम्यमानतत्त्वावबोधोपकारकत्वे फलितमाह -
अत इति ।
उक्तमर्थं वैदिकोदाहरणेन स्फुटयति -
यथेति ।
स्वर्गं प्रति यागस्य साधनत्वात्तत्र नियोगेऽपि प्रकृते काम्यमानोपायत्वाभावात्कुतो नियोगः स्यादित्याशङ्क्य प्रतिबन्धनिवृत्तितया प्रपञ्चलयस्यानुष्ठेयत्वं लौकिकदृष्टान्तेन दर्शयति -
यथा चेत्यादिना ।
तत्त्वज्ञानकामो द्वैतं प्रविलापयेदिति न नियोगो ब्रह्मणोऽपि तल्लये लयापातादित्याशङ्क्याह -
ब्रह्मेति ।
नहि लोके कार्यनाशेऽपि कारणं नश्यत्यारोपितस्याधिष्ठानान्तर्भावेऽपि तस्य तदनन्तर्भावादिति भावः ।
नैयोगिके द्वैतलये फलितमाह -
तेनेति ।
वेदान्तानां द्वैतत्ववियोगनिष्ठत्वेनैकवाक्यत्वं शङ्कितं प्रत्याह -
अत्रेति ।
प्रश्नमेव विशदयति -
कोऽयमिति ।
किंशब्दोपात्तं पक्षद्वयं दर्शयति -
किमित्यादिना ।
वास्तवस्यावास्तवस्य वा द्वैतस्य लयो नियोगविषयत्वेनेष्ट इति विकल्पार्थः ।
आद्यमनूद्य प्रत्याह -
यदीत्यादिना ।
वस्तुनो ज्ञानादध्वस्तेर्मुसलादिना च कृत्स्नद्वैतनिवृत्त्ययोगान्नभोग्रसननियोगवदयं नियोगः स्यादित्यर्थः ।
किञ्चानादौ संसारे कश्चित्प्रागितो मुक्तो न वा । तत्राद्येऽद्यतनपृथिव्याद्युपलब्धिर्विरुध्येत । द्वितीये शुकादिमुक्तिश्रुतिविरोधः । तस्याश्चार्थवादत्वेऽपि द्वारार्थे तात्पर्याविरोधादित्यनेकजीववादमुपेत्याह -
एकेनेति ।
द्वितीयमुत्थापयति -
अथेति ।
तर्हि द्वैतलये नियोगवैयर्थ्यमित्याह -
तत इति ।
ब्रह्मतत्त्वज्ञापनेनैव तदविद्याकृतद्वैतलयात्तदेव वेदान्तैर्ज्ञापनीयं कृतमत्र नियोगेनेत्यर्थः ।
कथं तदावेदनं तदाह -
एकमिति ।
मा तर्हि द्वैतलये नियोगो भूद्ब्रह्मज्ञाने तु स्यादिति द्वितीयमाशङ्क्याह -
तस्मिन्निति ।
शब्दोक्ते ब्रह्मणि नियोगापेक्षां विना शब्दशक्तेरेव ज्ञानोत्पत्तेर्न तद्विषयोऽपि नियोगोऽस्तीत्यर्थः ।
उत्पन्ने ज्ञाने नान्तरीयकत्वेनाज्ञाननिवृत्तेर्न नियोगस्तत्रापीति तृतीयं प्रत्याह -
तयेति ।
चतुर्थं निरस्यति -
ततश्चेति ।
कारणाविद्यानिवृत्तेरिति यावत् ।
किञ्च ब्रह्मज्ञानादौ नियोगो ब्रह्मण्यज्ञाते ज्ञाते वा । तत्राद्यं दूषयति -
अनावेदिते त्विति ।
द्वितीयमालम्बते -
नन्विति ।
ब्रह्मणि शाब्दे तद्वशादेव नियोगादृते ब्रह्मज्ञानादिसिद्धेर्नियोगवैयर्थ्यमित्याह -
नेत्यादिना ।
तदेव दृष्टान्तेन स्फुटयति -
रज्जिवति ।
ब्रह्मतत्त्वावेदनसिद्धमपि ब्रह्म ज्ञानादिनियोगेन पुनः साध्यमित्याशङ्क्याह -
नचेति ।
करणापर्यवसानादित्यर्थः ।