ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ २१ ॥
नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम, स प्रपञ्चपक्षस्यैव वा स्यात् , ब्रह्मपक्षस्यैव वा । प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवत् जीवस्यापि प्रविलापितत्वात् कस्य प्रपञ्चप्रविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ? द्वितीयेऽपि ब्रह्मैव अनियोज्यस्वभावं जीवस्य स्वरूपम् , जीवत्वं तु अविद्याकृतमेव — इति प्रतिपादिते ब्रह्मणि नियोज्याभावात् नियोगाभाव एव । द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठिताः तत्त्वाभिमुखीकरणप्रधानाः, न तत्त्वावबोधविधिप्रधाना भवन्ति । लोकेऽपि — इदं पश्य, इदमाकर्णयेति च एवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते, न साक्षाज्ज्ञानमेव कुर्विति । ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते, कदाचिन्न जायते । तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन । तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते । न च प्रमाणान्तरेण अन्यथाप्रसिद्धेऽर्थे अन्यथाज्ञानं नियुक्तस्याप्युपपद्यते । यदि पुनर्नियुक्तोऽहमिति अन्यथा ज्ञानं कुर्यात् , न तु तत् ज्ञानम् — किं तर्हि ? — मानसी सा क्रिया । स्वयमेव चेदन्यथोत्पद्येत, भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च । न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशतेनापि वारयितुं शक्यते । न हि तत् पुरुषतन्त्रम् , वस्तुतन्त्रमेव हि तत् । अतोऽपि नियोगाभावः । किञ्चान्यत् — नियोगनिष्ठतयैव पर्यवस्यत्याम्नाये, यदभ्युपगतम् अनियोज्यब्रह्मात्मत्वं जीवस्य, तत् अप्रमाणकमेव स्यात् । अथ शास्त्रमेव अनियोज्यब्रह्मात्मत्वमप्याचक्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् । नियोगपरतायां च, श्रुतहानिः अश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वम् अनित्यत्वं च — इत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः । तस्मादवगतिनिष्ठान्येव ब्रह्मवाक्यानि, न नियोगनिष्ठानि । अतश्च एकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ॥

विषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावादपि वेदान्तेषु तदभावमाह -

नियोज्योऽपीति ।

प्रपञ्चान्तर्भावपक्षं प्रत्याह -

प्रथम इति ।

प्रपञ्चप्रविलयो ब्रह्मज्ञानादेरुपलक्षणम् ।

मुमुक्षोर्नियोज्यत्वमाशङ्क्योक्तम् -

कस्येति ।

ब्रह्मान्तर्भावे नियोज्यत्वं दुर्वचमित्याह -

द्वितीयेऽपीति ।

ब्रह्मणोऽनन्योऽपि जीवोऽविद्ययाऽन्यत्वान्नियोज्यः स्यादित्याशङ्क्य ब्रह्मण्यावेदिते भेदकाविद्यायोगान्नैवमित्याह -

जीवत्वमिति ।

ब्रह्मज्ञाने श्रूयमाणा विधयस्तर्केण कथं निरस्यन्ते, तत्राह -

द्रष्टव्यादीति ।

तेषामभिमुखीकरणार्थत्वं न क्वापि दृष्टमित्याशङ्क्याह -

लोकेऽपीति ।

ज्ञानमेव प्रकृत्यर्थतया श्रुतं किमिति लोके वेदे वा न विधेयमित्याशङ्क्यापुरुषतन्त्रत्वादित्याह -

ज्ञेयेति ।

किञ्च नियोगवादिनाऽपि वेदान्तानां वस्तुवादित्वमवश्यं वाच्यं नियोगमात्रात्तत्त्वज्ञानायोगात् । ततो वाक्यादेव तदुत्पत्तेर्नियोगानर्थक्यमित्याह -

तस्मादिति ।

ज्ञानस्यपुरुषतन्त्रतया विधेयत्वायोगस्तच्छब्दार्थः । तं ज्ञेयाभिमुखं पुरुषं प्रतीति यावत् ।

तथापि नियोगाभावे कथं तत्र धीरित्याशङ्क्याह -

तस्मिन्निति ।

किञ्च मानानपेक्षो विधिर्न सम्यग्ज्ञानं जनयति । नच मुमुक्षोर्मिथ्याज्ञानमुपयुक्तम् । नच प्रमाणबाधिते सम्यग्ज्ञानं जनयितुं शक्यम् । तथाच मानेनैव तत्सिद्धेर्व्यर्थो विधिरित्याह -

नचेति ।

योषिदादिष्वग्न्यादिधीवन्मानविरुद्धेऽपि विधेर्युक्तं ज्ञानमित्याशङ्क्याह -

यदीति ।

अन्यथाज्ञानमपि न मानसी क्रिया रज्जुभुजङ्गादिधीवदित्याशङ्क्याह -

स्वयमिति ।

शास्त्रीययत्नाद्यनपेक्षतया जातज्ञानस्याक्रियात्वेऽपि शास्त्रीयमन्यस्यान्यज्ञानं प्रयत्नादिकृतं मानसी क्रियैवेत्यर्थः ।

कथम्भूतं तर्हि सम्यग्ज्ञानं, तत्राह -

ज्ञानं त्विति ।

तदपि नियोगाधीनं किं न स्यात् , तत्राह -

नेति ।

नेक्षेतेत्यादिनिषेधविषयत्ववद्विधिविषयत्वमपि स्यादित्याशङ्क्याह -

नचेति ।

तत्रापि सङ्कल्पप्रयत्न एव विधीयत इति भावः ।

सम्यग्ज्ञानस्य विधिनिषेधाविषयत्वे हेतुमाह -

नहीति ।

प्रयत्नानधीनत्वे फलितमाह -

अत इति ।

मानवस्तुतन्त्रत्वमपेरर्थः ।

नियोगवादिनं प्रत्यन्यच्च किञ्चिदुच्यते दूषणमित्याह -

किञ्चेति ।

तदेव स्फोरयति -

नियोगेति ।

शास्त्रस्य नियोगनिष्ठत्वे पदार्थयोरैक्योपगमो भ्रान्तिमूलः स्यादित्यर्थः ।

शास्त्रसिद्धत्वादुभयमपि प्रामाणिकमित्याह -

अथेति ।

अनेकार्थतया वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति -

तत इति ।

उपक्रमोपसंहारैकरूप्यादिसिद्धा ब्रह्मपरतापि वेदान्तानां नियोगपरत्वे पीड्येतेत्याह -

नियोगेति ।

किञ्च धियो विधेयत्वे कर्मवदपूर्वावान्तरव्यापारात्फलसिद्धिरेष्टव्या ततश्चादृष्टफलत्वमनित्यत्वं सातिशयत्वं च स्वर्गादिवत्तत्फलस्य स्यादित्याह -

कर्मेति ।

वेदान्तानां नियोगपरत्वाभावे कथं प्रामाण्यं, तत्राह -

तस्मादिति ।

तेषामनियोगनिष्ठत्वे फलितमाह -

अतश्चेति ।