ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ २१ ॥
अभ्युपगम्यमानेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे, तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु च असिद्धम् । न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम् । प्रयाजदर्शपूर्णमासवाक्येषु तु अधिकारांशेनाभेदात् युक्तमेकत्वम् । न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति । न हि भारूपत्वादयो गुणाः प्रपञ्चप्रविलयोपकारिणः, नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् । न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मात् अस्मदुक्त एव विभागः आकारवदनाकारोपदेशानां युक्ततर इति ॥ २१ ॥

वेदान्तेषु नियोगाभावादेकनियोगविधिरसिद्ध इत्युक्तम् । सम्प्रति प्रौढवादितया नियोगमङ्गीकृत्य तदेकत्वं प्रत्याह -

अभ्युपगम्यमानेऽपीति ।

तत्र हेतुमाह -

नहीति ।

भिन्नवाक्यार्थविषयः शब्दः शब्दान्तरम् । यथा यजतिददातिजुहोतयस्तथेहापि वेदोपासीतेति शब्दभेदः । अादिशब्देन रूपभेदः प्रकरणभेदः फलभेदश्च गृह्यते । एतैर्भेदे सिद्धे तदेकत्वासिद्धिरित्यर्थः ।

अनुबन्धभेदेऽपि प्रयाजदर्शपूर्णमासेष्विव नियोगैक्यमाशङ्क्याधिकारांशस्य तत्राभेदादिह तदभावान्नैवमित्याह -

प्रयाजेति ।

एकस्यैव स्वर्गकामस्य साङ्गप्रयोगाधिकारवदत्रापि मुमुक्षोरेकस्यैव द्वैतलयादावधिकारादुभयविधिवाक्येषु नियोगैक्यं स्यादित्याशङ्क्याह -

न त्विति ।

भिन्नाधिकारत्वादन्योन्योपकारायोगाच्चेति हेतुमाह -

नहीति ।

तर्हि भारूपत्वादीनां विशिष्टगुणवादित्वमन्येषां तस्मिन्नेव धर्मिणि द्वैतविलापनार्थतेत्येकवाक्यतेत्याशङ्क्याह -

नहि कृत्स्नेति ।

एकवाक्यत्वायोगे फलितमाह -

तस्मादिति ।

अनिर्वाच्यद्वैतालम्बनाः सविशेषश्रुतयः स्वाभाविकाद्वैतालम्बनाश्च निर्विशेषश्रुतय इत्यस्मदुक्तो विभागः । निष्प्रपञ्चमद्वयं चैतन्यैकरसंं ब्रह्मेति तत्पदलक्ष्यमुपसंहर्तुभितीत्युक्तम् ॥ २१ ॥