ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’ (बृ. उ. २ । ३ । १) इत्युपक्रम्य, पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य, अमूर्तरसस्य च पुरुषशब्दोदितस्य माहारजनादीनि रूपाणि दर्शयित्वा, पुनः पठ्यते — ‘अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति’ (बृ. उ. २ । ३ । ६) इति । तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे । न ह्यत्र इदं तदिति विशेषितं किञ्चित्प्रतिषेध्यमुपलभ्यते । इतिशब्देन तु अत्र प्रतिषेध्यं किमपि समर्प्यते, ‘नेति नेति’ इति इतिपरत्वात् नञ्प्रयोगस्य । इतिशब्दश्चायं सन्निहितालम्बनः एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते — ‘इति ह स्मोपाध्यायः कथयति’ इत्येवमादिषु । सन्निहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणः, तच्च ब्रह्म, यस्य ते द्वे रूपे । तत्र नः संशय उपजायते — किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति, आहोस्विदेकतरम् । यदाप्येकतरम् , तदापि किं ब्रह्म प्रतिषेधति, रूपे परिशिनष्टि, आहोस्विद्रूपे प्रतिषेधति, ब्रह्म परिशिनष्टि — इति ॥

निषेधश्रुतिभिर्ब्रह्मणि निर्विशेषे निरूपिते तासां ब्रह्मनिषेधत्वमाशङ्क्योक्तम् -

प्रकृतेति ।

ब्रह्म सन्मात्रं तच्च सामान्यत्वाद्विशेषापेक्षं तेन तेषु निषिद्धेषु नास्ति ब्रह्मेति शङ्कायामधिकरणम् । तस्य विषयवाक्यं सोपक्रममाह -

द्वे वावेति ।

वावशब्दोऽवधारणे ।

रूपद्वयमेवावधृतं विशिनष्टि -

मूर्तं चेति ।

किं तन्मूर्तं किञ्च तदमूर्तमित्याकाङ्क्षायामुक्तम् -

पञ्चेति ।

पृथिव्यप्तेजोरूपं भूतत्रयं मूर्तरूपं वाय्वाकाशं चामूर्तरूपमिति द्विराशित्वेन पञ्चभूतानि विभागेनोक्तानीत्यर्थः ।

अमूर्तस्य भूतद्वयस्य रसः सारो हिरण्यगर्भः करणात्मा य एष एतस्मिन्मण्डले पुरुषो यश्चायमध्यात्मं दक्षिणेऽक्षन्पुरुष इत्युक्तस्तस्य वासनाभयानि रूपाणि तद्यथा माहारजनमित्यादिना विचित्राणि दर्शयित्वा रूपिणो ब्रह्मणः स्वरूपोक्त्यर्थमथेत्यादिवाक्यमित्याह -

अमूर्तेति ।

सत्यस्य सत्यमित्यत्र षष्ठ्यन्तसत्यशब्दार्थोक्त्यनन्तरमित्यथशब्दार्थः । प्रथमान्तसत्यशब्दार्थस्य वक्तव्यत्वेनावशेषादित्यातःशब्दार्थः । अवशिष्टार्थस्तु व्यक्तीभविष्यति ।

वाक्योक्तिद्वारा तदर्थनिषेधमधिकरणविषयमुक्त्वा विशेषानुपलम्भकृतं संशयमाह -

तत्रेति ।

जिज्ञासाहेतुमुक्तं व्यनक्ति -

नहीति ।

सामान्येन दृष्टस्यैव विशेषतो दृष्टौ स्थाण्वादौ संशयदृष्टेरत्र तदभावे कथमसौ स्यादित्याशङ्क्याह -

इतिशब्देनेति ।

अस्तु तर्हि तदर्थवत्त्वाय यत्किञ्चिदत्र निषेध्यमित्याशङ्क्योक्तम् -

इतिशब्दश्चेति ।

प्रत्यक्षादिसंनिहितघटाद्यालम्बनस्तर्हि निषेधः स्यादित्याशङ्क्य सजातीयमानार्पितस्य विजातीयमानसिद्धादन्तरङ्गत्वात्तदालम्बनतैव निषेधस्येत्याह -

संनिहितं चेति ।

प्रकृतत्वं विशेषासिद्धिश्चेति हेतुमुक्त्वा संशयं निगमयति -

तत्रेति ।

अन्यतरनिषेधेनापि निषेधसिद्ध्या पक्षान्तरमाह -

अाहोस्विदिति ।

द्वितीयेऽपि ब्रह्मणो वाङ्मनसातीतत्वात्प्रपञ्चस्य चाध्यक्षादिसिद्धत्वात्तस्य व्यावहारिकमानसिद्धत्वेऽपि कल्पितत्वात्तत्कल्पनाधिष्ठानत्वात्तन्निषेधावधित्वाच्च ब्रह्मणः परिशेषार्हत्वादिति पक्षद्वयं दर्शयति -

यदपीति ।