ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे — द्वौ चैतौ प्रतिषेधौ, द्विः नेतिशब्दप्रयोगात् । तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते, अपरेण रूपवद्ब्रह्म — इति भवति मतिः । अथवा ब्रह्मैव रूपवत् प्रतिषिध्यते । तद्धि वाङ्मनसातीतत्वादसम्भाव्यमानसद्भावं प्रतिषेधार्हम् । न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः । अभ्यासस्त्वादरार्थः इत्येवं प्राप्ते ब्रूमः —

अत्र निषेधार्थोक्त्या तत्पदार्थस्यैव शोधनात्तस्यैव शद्धस्य वाक्यार्थान्वयित्वेन तद्धीहेुतुत्वात्पादादिसङ्गतिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

पूर्वपक्षे निषेधस्य शून्यतान्तत्वाद्ब्रह्मणः शून्यस्य प्रत्यक्त्वेन ज्ञानानर्हता । सिद्धान्ते व्यतिरिक्तस्यैव निषेधादप्रपञ्चस्य ब्रह्मणस्तत्वेन ज्ञानयोग्यता सति सम्भवे प्राप्तसर्वनिषेधकल्पनादेकदेशस्यैव तत्कल्पनं युक्तं लाघवात् ।

नेदं रजतमित्यादौ तथादर्शनादित्याशङ्क्य निषेधद्वयशक्त्या प्राप्तसर्वबाधकल्पनं युक्तमन्यत्र निषेधद्वयाभावादेकदेशस्यैव बाधेत्याह -

द्वौ चेति ।

निषेधयोर्द्वयोरपुनरुक्तमर्थमभिनयति -

तयोरिति ।

वस्त्वन्तराभावविशिष्टवस्त्वन्तरज्ञानस्यैव नेदं रजतमित्यादौ निषेधार्थत्वान्न सर्वनिषेधः सम्भवतीत्याशङ्क्याह -

अथवेति ।

तत्र हेतुः -

तद्धीति ।

प्रकृतत्वाविशेषात्प्रपञ्चस्यापि निषेधो ब्रह्मवदित्याशङ्क्याध्यक्षादिविरोधान्मैवमित्याह -

न त्विति ।

ब्रह्ममात्रनिषेधे निषेधद्वयवैयर्थ्यमेकेनैव कृतत्वादित्याशङ्क्याह -

अभ्यासस्त्विति ।

पक्षद्वयमनूद्य सिद्धान्तयति -

एवमिति ।