ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
न तावदुभयप्रतिषेध उपपद्यते, शून्यवादप्रसङ्गात् — कञ्चिद्धि परमार्थमालम्ब्य अपरमार्थः प्रतिषिध्यते, यथा रज्ज्वादिषु सर्पादयः । तच्च परिशिष्यमाणे कस्मिंश्चिद्भावे अवकल्पते । कृत्स्नप्रतिषेधे तु कोऽन्यो भावः परिशिष्येत ? अपरिशिष्यमाणे चान्यस्मिन् , य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात् तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः । नापि ब्रह्मप्रतिषेध उपपद्यते — ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) इत्याद्युपक्रमविरोधात् , ‘असन्नेव स भवति । असद्ब्रह्मेति वेद चेत्’ (तै. उ. २ । ६ । १) इत्यादिनिन्दाविरोधात् , ‘अस्तीत्येवोपलब्धव्यः’ (क. उ. २ । ३ । १३) इत्याद्यवधारणविरोधात् , सर्ववेदान्तव्याकोपप्रसङ्गाच्च । वाङ्मनसातीतत्वमपि ब्रह्मणो न अभावाभिप्रायेणाभिधीयते । न हि महता परिकरबन्धेन ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्येवमादिना वेदान्तेषु ब्रह्म प्रतिपाद्य तस्यैव पुनः अभावोऽभिलप्येत; ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति हि न्यायः । प्रतिपादनप्रक्रिया तु एषा — ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह’ (तै. उ. २ । ४ । १) इति । एतदुक्तं भवति — वाङ्मनसातीतमविषयान्तःपाति प्रत्यगात्मभूतं नित्यशुद्धमुक्तस्वभावं ब्रह्मेति । तस्माद्ब्रह्मणो रूपप्रपञ्चं प्रतिषेधति, परिशिनष्टि ब्रह्म — इत्यभ्युपगन्तव्यम् ॥

तत्र प्रथममुत्सूत्रमेव प्रथमं पक्षं प्रत्याह -

नेति ।

प्रसङ्गस्येष्टत्वं निराचष्टे -

किञ्चिद्धीति ।

वास्तवमधिष्ठानं ज्ञात्वारोप्यं निरस्यमित्यत्र दृष्टान्तमाह -

यथेति ।

अस्तु तर्हि शून्यमेव वस्तु तदधिगम्येतरन्निषेध्यं नेत्याह -

तच्चेति ।

निषेधनं तदर्थः । लोकसिद्धपदार्थान्वययोग्यतावशेन वाक्यार्थस्वीकारान्नेत्येव च निषेधादर्शनान्नायमयं नेदमिहेति धर्मिप्रतियोगिघटितस्यैव निषेधस्य दृष्टेर्विशेषणावशेषस्यावश्यकत्वादयुक्ता शून्यतेत्यर्थः ।

किञ्च लोके भ्रमस्य साधिष्ठानत्वोपलम्भात्तात्त्विकाधिष्ठानाभावे प्रत्यक्षादिसिद्धद्वैतस्यैव तात्त्विकत्वापातान्निषेधो निरवकाशः स्यादित्याह -

अपरीति ।

दृष्टसर्वनिषेधे तदेकदेशवस्तुधीरूपापवादाभावादुत्सर्गस्थितिरिति न्यायात्पूर्वदृष्टस्य वस्तुत्वप्रसङ्गादनवधिकनिषेधायोगादवस्तुतया च शून्यभानात्तद्दृष्ट्या पूर्वदृष्टनिषेधासम्भवान्न तत्पर्यन्तो निषेध इति भावः ।

पूर्वपक्षान्तरं प्रत्याह -

नापीति ।

प्राप्तिपूर्वकत्वान्निषेधस्य ब्रह्मणश्चाविद्यया प्रत्यक्षादिभिर्वा द्वैतवदप्राप्तेः शब्देन प्राप्तस्य तेनैव निषेधे पङ्कप्रक्षालनन्यान्न तन्निषेध इति भावः ।

ब्रह्मणो निषेध्यत्वाभावे हेत्वन्तरमाह -

ब्रह्मेति ।

आदिपदेन ब्रह्मविदाप्नोतीत्यादिरुपक्रमो गृह्यते ।

ब्रह्मणः सत्त्वासत्त्वधियोर्गुणदोषोक्तेरपि न तन्निषेध्यमित्याह -

असन्निति ।

ब्रह्मणः सन्मात्रत्वसिद्धेरपि न तन्निषेध्यमित्याह -

अस्तीति ।

किञ्च सर्वेषु वेदान्तेषु साक्षाद्वा परम्परया वा ब्रह्मैव प्रतिपाद्यते तेन तद्विरोधादपि न तन्निषेध्यमित्याह -

सर्वेति ।

यत्तु वाङ्मनसातीतत्वादसम्भावितसद्भावं निषेधार्थं ब्रह्मेति, तत्राह -

वागिति ।

तत्र हेतुः -

नहीति ।

केनाभिप्रायेण तर्हि वाङ्मनसातीतत्वमुक्तं, तत्राह -

प्रतिपादनेति ।

वागाद्यतीतत्वेनासत्त्वे ब्रह्मणोऽवगम्यमाने किमियं प्रतिपादनप्रक्रियेत्याशङ्क्याह -

एतदिति ।

पक्षद्वयायोगे फलितं निषेधार्थं निगमयति -

तस्मादिति ।