उक्तेऽर्थे सूत्रमवतार्य योजयति -
तदेतदित्यादिना ।
ब्रह्मणो रूपद्वयं निषेध्यमित्यत्र हेतुमाह -
तद्धीति ।
प्रकृतत्वमात्रेण निषेधे ब्रह्मणोऽपि निषेधः स्यादविशेषादित्याशङ्क्याह -
प्रपञ्चितं चेति ।
ब्रह्मणः षष्ठ्यन्तपदवाच्यतया प्रपञ्चावच्छेदेनाप्रधानत्वात्प्रपञ्च एव प्रधानतया निषेधेन सम्बध्यत इत्यर्थः ।
पुरुषशब्दश्रवणात्तस्य च ब्रह्मविषयत्वाद्ब्रह्मापि प्रपञ्चितमित्याशङ्क्य पुरुषशब्दस्यात्र लिङ्गात्मविषयत्वान्मैवमित्याह -
तदिति ।
वासनालक्षणमेव रूपं किमित्युपमाभिरुच्यते प्रसिद्धरूपत्वमेव पुरुषस्य कुतो नेष्टमित्याशङ्क्याह -
अमूर्तेति ।
रूपद्वयस्य प्राधान्येन प्रकृतत्वे फलमाह -
तदिति ।
अर्थतो ब्रह्मणोऽपि प्राधान्येन प्रकृतत्वाविशेषान्निषेध्यत्वमित्याशङ्क्याह -
ब्रह्म त्विति ।
अर्थतस्तस्य प्राधान्येऽपि राजपुरुषादाविव शब्दतः प्रधानतया प्रकृतं रूपद्वयमेव प्रकृतपरामर्शिनेतिशब्देनानूद्य निषेध्यमित्यर्थः ।
ब्रह्मणस्तर्हि प्राधान्येनाप्रकृतत्वादुत्तरत्रापि न प्रतिपाद्यतेत्याशङ्क्याह -
प्रपञ्चिते चेति ।
एवमुपक्रमेऽपि कथं वाक्यार्थो निर्णीयतामित्याशङ्क्याध्यारोपापवादन्यायं सूचयति -
तत्रेति ।
निर्घटं भूतलमित्युक्ते घटस्यान्यत्र सत्त्ववद्ब्रह्मणि रूपद्वयनिषेधेऽपि ततोऽन्यत्र तद्भवेदित्याशङ्क्याह -
तदास्पदमिति ।
उपादानादन्यत्र कार्यायोगात्तत्र निषिद्धस्य न क्वापि सत्तेति भावः,
यत्तु प्रत्यक्षादिसिद्धस्य द्वैतस्य न निषेधस्तद्विरोधादिति, तत्राह -
युक्तं चेति ।
तत्त्वावेदनमानासिद्धत्वाद्वाचारम्भणादिशब्दाच्च द्वैतस्य वस्तुसत्त्ववैधुर्याद्युक्ता निषेध्यतेति भावः ।
सत्त्वेन सिद्धं द्वैतं निषिध्यते चेद्ब्रह्मणोऽपि तथा सिद्ध्यविशेषान्निषेधतादवस्थ्यमित्याशङ्क्याह -
न त्विति ।
आरोपाधिष्ठानत्वेन निषेधावधित्वेन चावशेषान्न ब्रह्मणो निषेध्यतेत्यर्थः ।
द्वे वावेत्यादिनोक्तं रूपद्वयं निषिध्यते चेत्पङ्कप्रक्षालनन्यायात्प्रसज्यप्रतिषेधे गौरवं स्यादित्याशङ्क्याह -
नचेति ।
अत्रेति रूपद्वयनिषेधपक्षोक्तिः । शङ्का न कार्येत्यत्र हेतुमाह -
यत इति ।
अप्रतिपाद्यं चेदनुवाद्यत्वं नच प्राप्तिफले विनाऽनुवादः, तत्राह -
लोकेति ।
तथापि कथं पङ्कप्रक्षालनन्यायो न स्यादित्याशङ्क्य निषेधस्य फलवत्त्वादित्याह -
शुद्धेति ।
उक्तरीत्या निषेधस्य निर्दोषत्वमुक्तं निगमयति -
इति निरवद्यमिति ।
द्वौ निषेधौ तयोरवैयर्थ्यार्थं सर्वं निषेध्यमित्युक्तं प्रत्याह -
द्वौ चेति ।
सम्भावितं पक्षान्तरमाह -
यद्वेति ।
भावाभावविषयत्वेन वा निषेधद्वयं विवक्षितम् ।
पक्षान्तरमाह -
अथवेति ।
वीप्सापक्षे वाक्यार्थमाह -
इतीति ।
यावदिति पक्षान्तरेभ्यो विशेषार्थम् ।
तेषु निराकाङ्क्षो वाक्यार्थो न सिध्यतीत्याह -
परीति ।
वीप्सापक्षे निराकाङ्क्षा वाक्यार्थधीरिति विशेषमाह -
वीप्सायां त्विति ।
सूत्रावयवव्याख्यामुपसंहरति -
तस्मादिति ।