ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
इतश्च एष एव निर्णयः, यतः — ततः प्रतिषेधात् , भूयो ब्रह्म ब्रवीति — ‘अन्यत्परमस्ति’ (बृ. उ. २ । ३ । ६) इति । अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् । तत्रैषा अक्षरयोजना — ‘नेति नेति’ इति ब्रह्म आदिश्य, तमेव आदेशं पुनर्निर्वक्ति । ‘नेति नेति’ इत्यस्य कोऽर्थः ? न हि एतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतः ‘नेति नेति’ इत्युच्यते, न पुनः स्वयमेव नास्ति — इत्यर्थः । तच्च दर्शयति — अन्यत्परम् अप्रतिषिद्धं ब्रह्म अस्तीति । यदा पुनरेवमक्षराणि योज्यन्ते — न हि, एतस्मात् ‘इति न’ ‘इति न’ इति प्रपञ्चप्रतिषेधरूपात् आदेशनात् , अन्यत्परमादेशनं ब्रह्मणः अस्तीति — तदा, ‘ततो ब्रवीति च भूयः’ इत्येतत् नामधेयविषयं योजयितव्यम् — ‘अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । १ । २०) इति हि ब्रवीति — इति । तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति । अभावावसाने तु प्रतिषेधे, किम् ‘सत्यस्य सत्यम्’ इत्युच्येत ? तस्माद्ब्रह्मावसानः अयं प्रतिषेधः, नाभावावसानः — इत्यध्यवस्यामः ॥ २२ ॥

अवयवान्तरमादाय व्याकरोति -

इतश्चेति ।

कथं तावता निषेधस्य नाभावावसानत्वं, तत्राह -

अभावेति ।

नेति नेतीति निषेधात्परमस्तीति प्रतिपादकं किमित्यपेक्षायामादेशनिर्वचनवाक्यमेवेत्यक्षरयोजनया दर्शयति -

तत्रेति ।

निर्वचनप्रकारमेवाकाङ्क्षापूर्वकमाह -

नेत्याविना ।

हि यस्मान्नेति नेत्यादिष्टादेतस्माद्ब्रह्मणोऽन्यद्व्यतिरिक्तं नास्ति ब्रह्मैव परमस्ति तस्मान्नेति नेत्युच्यते न तु सर्वाभावधियेति निर्वचनस्यार्थः ।

एवंप्रकारमेतन्निर्वचनमनिषिद्धं ब्रह्म वदतीत्याह -

तच्चेति ।

निर्वचनमेवानिषिद्धं ब्रह्माहेति श्रुतियोजनयोक्तम् । इदानीं नामधेयमेव निषेधावशिष्टं ब्रह्माहेति विधान्तरेण श्रुतियोजनया दर्शयति -

यदेति ।

किं तन्नामधेयं तदाह -

अथेति ।

प्रकृतनिषेधस्याभावान्तत्वनिषेधार्थोऽथशब्दः ।

ननु नामधेयं निषेधस्याभावान्तत्वेऽपि तद्विषयं घटिष्यते । नेत्याह -

तच्चेति ।

द्वेधा सूत्रावयवव्याख्यामुपसंहरति -

तस्मादिति ॥ २२ ॥