अनिषेध्यत्वेन वस्तुसत्यं ब्रह्मोक्त्वा तस्याग्राह्यत्वेनासत्त्वमाशङ्क्य प्रत्याह -
तदव्यक्तमिति ।
सूत्रव्यावर्त्यमाह -
यत्तदिति ।
आत्मनि गृह्यमाणे तदभिन्नब्रह्मापि ग्राह्यमिति वापाद्यते भावत्वे घटवत्प्रत्यक्षग्राह्यता तस्या स्यादिति वा । नाद्यः । प्रत्यगभिन्नत्वेऽप्यविद्यावृतत्वात्तद्ग्रहेऽपि तदग्रहसिद्धेरित्याह -
उच्यत इति ।
न द्वितीय इत्याह -
तदिति ।
कथमिन्द्रियाग्राह्यत्वं ब्रह्मणः सिद्धं, तत्राह -
आह हीति ।
अन्यैर्देवैरिन्द्रियान्तरैरिति यावत् ।
श्रुत्युक्तिपरत्वेन सूत्रावयवं व्याख्याय विधान्तरेण व्याचष्टे -
स्मृतिरिति ॥ २३ ॥