ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
अपि च एनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगिनः । संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम् । कथं पुनरवगम्यते — संराधनकाले पश्यन्तीति ? प्रत्यक्षानुमानाभ्याम् , श्रुतिस्मृतिभ्यामित्यर्थः । तथा हि श्रुतिः — ‘पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) इति, ‘ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः’ (मु. उ. ३ । १ । ८) इति चैवमाद्या । स्मृतिरपि — ‘यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः॥’ (म. भा. १२ । ४७ । ५४) ‘योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्’ (म. भा. ५ । ४६ । १) इति चैवमाद्या ॥ २४ ॥

आत्मैव ब्रह्माविद्यावृतं चेन्न कदाचिदपि गृह्येतेत्याशङ्क्याह -

अपीति ।

सूत्रं व्याकरोति -

अपिचेति ।

नास्य सदा ग्राह्यत्वमग्राह्यत्वं वा समाध्यवस्थायां प्रत्यक्त्वेन भानादित्यर्थः । भक्तिध्यानाभ्यां प्रकर्षेण स्वीये मनसि प्रतीचो निधानं भक्तिध्यानप्रणिधानम् । आदिपदेन तत्पूर्वकजपनमस्कारादिग्रहणम् ।

तत्र प्रश्नपूर्वकं प्रमाणमाह -

कथमिति ।

स्वयम्भूः स्रष्टा परमात्मा खानि छिद्रोपलक्षितानीन्द्रियाणि पराञ्च्यनात्मविषयाणि व्यतृणद्धिंसितवान् ।

सा हि तेषां हिंसा यदसदर्थविषयतया समर्पणमित्याह -

पराञ्चीति ।

तेषां तथासृष्टत्वे गमकमाह -

तस्मादिति ।

यदि पराञ्चमेवार्थमिन्द्रियैः पश्यति नान्तरात्मानं कथं तर्हि लोकस्य तत्र ज्ञानमित्याशङ्क्य साधनचतुष्टयवतः समाधिकाले शुद्धे मनसि प्रत्यक्त्वेन तद्दृष्टिरित्याह -

कश्चिदिति ।

ततो नित्याद्यनुष्ठानात्परिशुद्धबुद्धिर्ज्ञानस्य करणव्युत्पत्त्याऽन्तःकरणस्य प्रसादो नैर्मल्यं तेन निरवयवं निष्प्रपञ्चं प्रत्यञ्चं ध्यायन्नविषयत्वेन तत्साक्षात्करोतीत्याह -

ज्ञानेति ।

विगता निद्रा येभ्यस्ते तथेति स्वापाद्विवेकः । जितः श्वासो यैरिति प्राणायामनिष्ठतोक्तिः । सन्तुष्टा इति मनोव्याकुलताव्यावृत्त्या स्वप्नाद्विवेकः । संयतानीन्द्रियाणि येषामिति जागरिताद्भेदः । एतानि विशेषणानि यमनियमादिसर्वाङ्गोपसङ्ग्रहार्थानि योगात्मत्वं तज्जधीगम्यत्वम् ॥ २४ ॥