ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
यथा प्रकाशाकाशसवितृप्रभृतयः अङ्गुलिकरकोदकप्रभृतिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभाविकीमविशेषात्मतां जहति; एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्तु ऐकात्म्यमेव । तथा हि वेदान्तेषु अभ्यासेन असकृत् जीवप्राज्ञयोरभेदः प्रतिपाद्यते ॥ २५ ॥

प्रकाशादिवच्चेति भागं विभजते -

यथेति ।

यद्यपि दृष्टान्तादात्मा प्रकाशशब्दितोऽज्ञानतत्कार्ये कर्मण्युपाधौ सविशेषस्तथापि वस्तुतस्तस्यावैशेष्यमैकरस्यमेवेति दार्ष्टान्तिकमाह -

एवमिति ।

अभ्यासादिति व्याचष्टे -

तथाहीति ॥ २५ ॥