जीवस्य ब्रह्मात्मत्वाप्तिश्रुतिवशादपि वास्तवमैक्यमौपाधिकं नानात्वमित्याह -
अत इति ।
अतोऽनन्तेनेति व्याचष्टे -
अतश्चेति ।
अभेदस्य स्वाभाविकत्वे सूत्रावयवं व्याकुर्वाणो हेतुमाह -
तथाहीति ।
आदिपदेन ब्रह्मविदाप्रोति परमित्यादि ग्राह्यम् ॥ २६ ॥