ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् — यथा प्रकाशः सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ, उभयोरपि तेजस्त्वाविशेषात्; अथ च भेदव्यपदेशभाजौ भवतः — एवमिहापीति ॥ २८ ॥

अहिकुण्डलन्यायेन परस्य जीवः संस्थानभूतो दर्शितः । सम्प्रति तदेकदेशभूत इति विधान्तरमाह -

प्रकाशेति ।

तद्व्याकरोति -

अथवेति ।

ब्रह्मात्मतत्त्वमेतदित्युक्तम् । दृष्टान्तं व्याचष्टे -

यथेति ।

अभेद एव तर्हि तयोर्नेत्याह -

अथ चेति ।

इहापीति पूर्ववद्ब्रह्मात्मोक्तिः परमतमुपसंहर्तुमितिशब्दः ॥ २८ ॥