ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
पूर्ववद्वा ॥ २९ ॥
यथा वा पूर्वमुपन्यस्तम् — ‘प्रकाशादिवच्चावैशेष्यम्’ इति, तथैव एतद्भवितुमर्हति । तथा हि अविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्य आत्मनः संस्थानभूतः, प्रकाशाश्रयन्यायेन च एकदेशभूतोऽभ्युपगम्येत । ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयर्थ्यं प्रसज्येत । न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्यवद्व्यपदिशति । अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्वप्रसिद्धमेवानुवदति अर्थान्तरविवक्षया । तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः ॥ २९ ॥

स्वसिद्धान्तमाह -

पूर्ववद्वेति ।

तत्प्रपञ्चयति -

यथेति ।

तर्हि भेदस्यैव प्रतिपाद्यता । मैवम् । प्रसिद्धानुवादेनाप्रसिद्धस्य तद्भावादित्याह -

अभेदमिति ।

परमतायोगे स्वमतमुपसंहरति -

तस्मादिति ॥ २९ ॥