ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
परम् अतो ब्रह्मणः अन्यत्तत्त्वं भवितुमर्हति । कुतः ? सेतुव्यपदेशात् उन्मानव्यपदेशात् सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च । सेतुव्यपदेशस्तावत् — ‘अथ य आत्मा स सेतुर्विधृतिः’ (छा. उ. ८ । ४ । १) इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्वं सङ्कीर्तयति । सेतुशब्दश्च हि लोके जलसन्तानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः । इह तु सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयति । ‘सेतुं तीर्त्वा’ (छा. उ. ८ । ४ । २) इति च तरतिशब्दप्रयोगात् — यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोति, एवमात्मानं सेतुं तीर्त्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते । उन्मानव्यपदेशश्च भवति — तदेतद्ब्रह्म चतुष्पात् अष्टाशफं षोडशकलमिति । यच्च लोके उन्मितम् एतावदिदमिति परिच्छिन्नं कार्षापणादि, ततोऽन्यद्वस्त्वस्तीति प्रसिद्धम् । तथा ब्रह्मणोऽप्युन्मानात् ततोऽन्येन वस्तुना भवितव्यमिति गम्यते । तथा सम्बन्धव्यपदेशोऽपि भवति — ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति, ‘शारीर आत्मा’ (तै. उ. २ । ३ । १) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ. उ. ४ । ३ । २१) इति च । मितानां च मितेन सम्बन्धो दृष्टः, यथा नराणां नगरेण । जीवानां च ब्रह्मणा सम्बन्धं व्यपदिशति सुषुप्तौ । अतः ततः परमन्यदमितमस्तीति गम्यते । भेदव्यपदेशश्च एतमेवार्थं गमयति । तथा हि — ‘अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते’ (छा. उ. १ । ६ । ६) इत्यादित्याधारमीश्वरं व्यपदिश्य, ततो भेदेन अक्ष्याधारमीश्वरं व्यपदिशति — ‘अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते’ (छा. उ. १ । ७ । ५) इति । अतिदेशं च अस्य अमुना रूपादिषु करोति — ‘तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम’ (छा. उ. १ । ७ । ५) इति । सावधिकं च ईश्वरत्वमुभयोर्व्यपदिशति — ‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (छा. उ. १ । ६ । ८) इत्येकस्य, ‘ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’ (छा. उ. १ । ७ । ६) इत्येकस्य, यथा इदं मागधस्य राज्यम् , इदं वैदेहस्येति । एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीति ॥ ३१ ॥

अन्यस्य निषेधाद्ब्रह्मणश्च श्रुतत्वात्तदस्ति चेद्ब्रह्मातिरिक्तस्यापि श्रुत्योक्तत्वादस्तितेति मत्वा पूर्वपक्षसूत्रं योजयति -

परमित्यादिना ।

इतिशब्दोऽक्षरयोजनासमाप्त्यर्थः । तत्राद्यं विवृणोति -

सेत्विति ।

ब्रह्मणः सेतुत्वेऽपि कथं सद्वितीयत्वमित्याशङ्क्य व्याप्तिमाह -

सेतुशब्दश्चेति ।

ब्रह्म सद्वितीयं सेतुत्वाल्लौकिकसेतुवदिति मत्वाह -

इह चेति ।

इतश्च ब्रह्मसेतोः सद्वितीयत्वमित्याह -

सेतुमिति ।

कथमेतावता वस्त्वन्तरास्तित्वं, तत्राह -

यथेति ।

जाङ्गलं वातभूयिष्ठमित्युक्तत्वाद्वातबहुलो देशो जाङ्गलम् । इह तु न्यायसाम्येन स्थलमात्रमुक्तम् ।

द्वितीयं हेतुं व्याकरोति -

उन्मानेति ।

प्राची प्रतीची दक्षिणोदीचीति चतस्रः कलाः प्रकाशवान्पादः । पृथिव्यन्तरिक्षं द्यौः समुद्र इत्युनन्तवान्पादः । अग्निः सूर्यश्चन्द्रमा विद्युदिति ज्योतिष्मान्पादः । चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्पादः । एते पादाश्चत्वारोऽस्येति चतुष्पाद्ब्रह्म पादानामर्धान्यष्टौ शफान्यस्येत्यष्टाशफं चतस्रश्चतस्रः कला एकैकस्य पादस्येति षोडशकलं षोडशावयवमित्यर्थः ।

एवमुन्मानेऽपि कथं वस्त्वन्तरास्तित्वं, तत्राह -

यच्चेति ।

कार्षापणशब्देन षोडशपणानां संज्ञोक्ता ।

ब्रह्म सद्वितीयमुन्मितत्वात्संंमतवदित्याह -

तथेति ।

तृतीयं हेतुं व्याचष्टे -

तथेति ।

तथापि कथं सद्वितीयत्वमित्याशङ्क्य व्याप्तिमाह -

मितानां चेति ।

व्याप्तस्य हेतोः पक्षधर्मतामाह -

जीवानां चेति ।

विमतं सद्वितीयं, सम्बन्धवत्त्वात् , नगरवदित्याह -

अत इति ।

चतुर्थं हेतुं विवृणोति -

भेदेति ।

तत्राधारतो भेदव्यपदेशमुदाहरति -

तथाहीति ।

अतिदेशतस्तं दर्शयति -

अतिदेशं चेति ।

अस्येत्यक्षिस्थस्य पुरुषस्येत्यर्थः । अमुनेत्यादित्यमण्डलस्थेन पुरुषेण सहेति यावत् ।

अवधितोऽपि भेदोक्तिं साधयति -

सावधिकं चेति ।

एकस्येत्याधिदैविकस्य पुरुषस्येति यावत् । पुनरेकस्येत्याध्यात्मिकस्य पुरुषस्येत्यर्थः ।

ऐश्वर्यस्य सावधिकत्वे दृष्टान्तमाह -

यथेति ।

विमतं सद्वितीयं, भेदव्यपदेशभाक्त्वात् , घटवदित्यर्थः ॥ ३१ ॥